________________
३१०
हीरसौभाग्यम् [सर्ग ५ श्लो० ४८-५० शीला भवेत् । पुनर्हे बन्धो, त्वममुष्यां तारुण्यावस्थायां युवतीभिविनवतीभिः स्त्रीभिः साधं रमस्व विलास कुरु । 'युवतीकरनिर्मलनिर्मथितम्' इति दीर्घोऽपि युवतीशब्दः । किंभूतायाममुष्याम् । कामस्य कन्दर्पस्य केलिवसतौ क्रीडार्थगृहे । पुनः किंभूतायाम् । रते रागस्य सख्यां वयस्याम् । 'रतिः स्मरस्त्रियां रागे रते' इत्यनेकार्थः ॥
શ્લોકાર્થ હે વત્સ, પુણ્યશાલી પુરુષને જેમ લક્ષ્મી આવે છે, તેમ તને યુવાવસ્થા આવી રહી છે. તે હે ભાઈ ! કામદેવના ક્રિીડાગૃહ સમાન એવી આ યુવાવસ્થામાં રતિસરખી યુવતિઓ સાથે ક્રિીડા ४२. ' ॥४८॥
यौवनेऽर्जय यशोगुणलक्ष्मीः, क्षोणिमानिव महःक्षितिकोशान् ।
आहेत तदनु धर्ममयि त्वं, स्थाविरे स्थिरतया विदधीथाः ॥४९॥
हे वत्स, यौवने तारुण्ये यशांसि कीर्तीर्गुणान् महत्त्वौदार्यादिलक्षणान् लक्ष्मीरमिताः श्रियश्च अर्जय स्वायत्तीकुरु । क इव । क्षोणिमानिव । यथा भूपतिस्तारुण्ये महः प्रताप क्षिति परदेशमण्डल कोशान् बहून् भाण्डागारोत्करानुपार्जयति । 'स्वात्पालधनमुक्नेतृपतिमत्त्वर्थकादयः' इति हैम्यामुक्तत्वेन क्षोणिमानित्यत्र मत्त्वर्थीयप्रत्ययः । अयि पुनर्हे वत्स, अनु तारुण्यावस्थायां पश्चात्स्थाविरे वार्धके वृद्धवयसि स्थिरतया स्थैर्येण अचपलचित्तत्वेन आर्हतमर्हदुक्त त चारित्रलक्षण धर्म विदधीथाः कुर्वीथाः ॥
લેકાર્થ हे पास, कोम शन, युवापरयामा प्रताप, वो भने २ सय ४२ . तेम तु' પણ યુવાવસ્થામાં યશ, ઔદાર્યાદિક ગુણો અને ઘણી લક્ષ્મીને પ્રાપ્ત કર. પછી હે ભાઈ ! વૃદ્ધાવસ્થામાં રિથરતા આવવાથી જિનેશ્વર ભગવંતે કહેલા ચારિત્રધર્મ અંગીકાર કરજે.' જલા
मौक्तिकेन किल सोदर ! सर्वैः, श्लाघ्यतेऽत्र भवता पितृवंशः । भ्रातृमत्यहमपि त्वयकास्मि, श्रीरिवामृत करेण वरेण ॥५०॥
हे सोदर, अत्र लोके भवता त्वया कृत्वा । अथवा अत्रभवता पूज्येन । भाविनी भूतोपचाराज्जनानां माननीयेन वा भवता । 'अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थे निपात्येते' इति वचनात् । पितृवंशस्तातान्वयः कुंरासाहकुलम् । सर्वैर्जनैः श्लाघ्यते प्रशस्यते स्तूयते । केनेव । मौक्तिकेनेव । अत्र किलेति इवार्थे । यथा मौक्तिकेन मुक्ताफलेन कृत्वा मुक्ताफलानां पिता तस्मादुत्पन्नत्वात्तेषां तादृशो वंशो वेणुः शतपर्वा जनैः श्लाध्यते । 'उत्प्रेक्षाद्योतकाः शके, मन्ये नूनमिव ध्रुवम् जाने किलादयो ज्ञेयाः प्रायेणैव क्रियोद्भवाः॥' इति कविशिक्षायाम् । अपि पुनर्व्ह बन्धो अहं त्वयका कृत्वा भ्रातृमती सोदरवती अस्मि वर्ते । केव । श्रीरिव । यथा लक्ष्मीरमृतकरेण चन्द्रेण बन्धुमत्यस्ति । द्वयोरपि समुद्रोत्पन्नत्वेन । किंभूतेन त्वया चन्द्रेण च । वरेण जनेषु ज्ञातिषु श्रेष्ठेन ॥ :