________________
सर्ग ५ श्लो० ४६-४८] हीरसौभाग्यम्
३०९. कृत्वा । कुतस्तादृग्भ्रातृप्रव्रज्यापरिणामोद्भूतदुःखतः । स किंभूतः । साधिम्ना शरीरसौ. न्दर्येण । 'साधुरम्यमनोज्ञानि' इति हैम्याम् । अधरिता हीनीकृता तिरस्कृता वा पुष्पधनुषः कामस्य श्रीर्वपुः शोभा येन । 'त्वयातः किं नरसाधिमभ्रमः' इति नैषधे ॥ उत्प्रेक्ष्यते-परभृतेव । यथा कोकिलया भाष्यते विस्वरमुच्यते । किंभूतया । डिम्मेन अव्यक्तबालकेन लम्भित प्रापित यद्विडम्बन संतापन तद्भजतीति परान् काकबालकान् पुष्यन्तीति परभृतः । 'कोकिलैः पालितः काकस्तथा चाप्रैस्तु पोषितः' इति वचनात् । तथा परभृत् व्यञ्जनान्तः । 'परभृतां मदनालसचेतसाम्-' इत्यादि रघुकुमारयोरपि।
લોકાઈ શરીરના સૌન્દર્યથી કામદેવનો તિરસ્કાર કરનારા પોતાના ભાઈ હીરકુમારને પ્રવજ્યા ગ્રહણ કરવાના થયેલા અભિલાષથી અતિદુઃખી બનેલી વિમલા, કમળ અને ગદ્ગદ્દ કંઠે આ પ્રમાણે કહેવા લાગી; જેમ રંગની સમાનતાથી “આ કાકનું બાળક છે કે મારું બાળક છે' આમ પિતાના બાળકને નહીં જાણવાથી વિડંબના પામેલી કેયલ વિરસ સ્વરે બેલે, તેમ વિડંબના પામેલી વિમલા અસ્પષ્ટપણે ગદ્ગદ્ કંઠે બોલી. ૪
सांप्रत व्यतिकरस्तव कोऽय, वार्धकोचितविधेश्चरणस्य ।
लीढि वत्स ! विषयस्य रसाल-स्येव पत्रिमफलस्य रसांस्त्वम् ॥४७॥
हे वत्स, सांप्रतमिदानी बाललीलायां तव भवतश्चरणस्य चारित्रस्य कोऽयं व्यतिकरः क एष प्रस्तावसमयः । किंभूतस्य चरणस्य । वार्धके वृद्धावस्थायामुचितो योग्यो विधिराचरण यस्य । किं च हे बन्धो, अधुना त्वं विषयस्य शब्दादिगोचरस्य रसानास्वादान लीढि आस्वादय । रागाननुभव । कस्येव । पवित्रमफलस्येव । यथा कोऽपि रसालस्य सहकारतरोः परिपक्वफलस्य रसान्निस्यन्दानास्वादयति जनः ॥
..
. હે વત્સ, હાલ બાલક્રીડા કરતા એવા તારે વૃદ્ધાવસ્થામાં લેવા યોગ્ય ચારિત્રને ગ્રહણ કરવાને શું સમય છે? હે બંધુ ! હમણાં તો તું પાકેલા આમ્રફલ જેવા મધુર શબ્દાદિ વિષયના રસને આસ્વાદ કર અર્થાત અનુભવ કર. ૪છો ?
भाग्यभाजि जलजन्मगृहेवा-गन्तुका तरुणता त्वयि वत्स !।
कामकेलिवसती रतिसख्यां, त्वं रमस्व युवतीभिरमुष्याम् ॥४८॥ हे वत्स, त्वयि विषये तरुणता यौवनावस्था आगन्तुका आगमनोत्सुकशीला वर्तते । केव । जलजन्मगृहेव । यथा भाग्यभाजि पुण्यवति पुरुषे जलजन्ममन्दिरा लक्ष्मीरागमन
१ वस्तुतस्तु परभता काक्येव । कोकिलडिम्भो रूपसादृश्यविडम्बनातः काकाभ्यां पाल्यते इत्येव संप्रदायः ।