SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ - ३०८ हीरसौभाग्यम् सर्ग ५ श्लो० ४३-४६ કરવા માટે ઉત્સુક બન્યા હતા, તેમ સંસારથી ઉદ્વિગ્ન બનેલે હું, હાલમાં આચાર્યશ્રીની પાસે ચારિત્રલક્ષ્મી ગ્રહણ કરવા માટે ઉત્સુક બન્યો છું. કા सेतुबन्धमिव संसृतिसिन्धो-स्तद्वताय मम देहि निदेशम् । विनयेन हि महोदयलक्ष्मी-संमुखं निजजन हितकाङ्क्षी ॥४४॥ हे जामे, तत्कारणात् त्वं मम व्रताय चारित्रग्रहणार्थ निदेशमाशां देहि । कमिव । सेतुबन्धमिव पद्याविरचनमिव । लोके 'पाज' इति प्रसिद्धा । कस्य । संसृतिः संसारः स एवागाधत्वात्सिन्धुः समुद्रस्तस्य । हि यस्मात्कारणान्महानुदयोऽत्यैश्वर्य मोक्षश्च तस्य लक्ष्मीस्तत्राभिमुख संमुखीभूतं निजजन स्वकीयबन्धुवर्ग हितकाङ्क्षी स्वजनहिताभिलाषुको जनः को विघ्नयेद्विघ्नं कुर्यात् , अपि तु न कोऽपि नान्तरायी भवेत् ॥ इति विमलाभगिनी प्रति हीरकुमारस्य दीक्षादेशमार्गणवचनम् ॥ શ્લેકાર્થ “ હે બહેન! સંસાર સમુદ્રની પાજ સમાન પ્રવજ્યા ગ્રહણ કરવા માટે મને આજ્ઞા આપો. ખરેખર, મેક્ષલક્ષ્મીને સન્મુખ બનેલા પોતાના સ્વજનેને હિતસ્વીજનેએ અંતરાય ન કરવો नेम' ॥४॥ तद्वचो विरचित सहजेन, प्राप्तमात्रमपि कर्णपुटान्तः । क्षिप्ततप्तगुरुपत्रमिवास्या, दुःखमप्रतिममातनुते स्म ॥४५॥ सहजेन भ्रात्रा । ['भ्राता तु स्यात्सहोदरः । समानोदर्यः सोदयः सगर्भसहजा अपि ॥ इति हैम्याम् ।] विरचित कथित तद्वचो दीक्षादेशमार्गणरूपं तत्पूर्वोक्त वाक्य कर्णपुटान्तः श्रोत्रपात्रमध्ये प्राप्तमात्रमपि केवलमेकवार गतमपि अस्या विमलाया हीर. कुमारस्य बृहदागिन्या अप्रतिममसाधारण दुःखमातनुते स्म चक्रे । किमिव । क्षिप्ततप्त. गुरुपत्रमिव । यथा-क्षिप्त स्थापित तप्तमुष्णीकृत गुरुपत्र कर्णयोरतिदुःखदं स्यात् ॥ શ્લેકાર્થ પિતાના ભાઈનાં આવાં વચન સાંભળતાં જ વિમલા અત્યંત દુઃખ પામી, જેમ તપાવેલા સીસાને પ્રક્ષેપ કાનને અતિ દુઃખદાયી બને છે, તેમ હીરકુમારનાં દીક્ષા ગ્રહણનાં વચનો વિમલાને અતિ દુઃખદાયી બન્યાં. I૪૫ डिम्भलम्भितविडम्बनभाजा, दुःखतः परभृतेव भगिन्या । स न्यगादि मृदुगद्गदवाचा, साधिमाधरितपुष्पधनुःश्रीः ।।४६॥ स हीरकुमारो भगिन्या विमलास्वना न्यगादि भाषितः । किंभूतया । मृद्वी कोमला तथा बाष्पैरस्पष्टा तादृशी वाग्वाणी यस्याः । अथवा साधनभूतया वाचा
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy