________________
सर्ग ५ श्लो० ५१-५३] हीरसौभाग्यम्
પ્લેકાર્થ હે સદર, મુક્તાફલથી જેમ તેને પિતા વાંસ-વેણુ મનુષ્ય વડે પ્રશંસાય છે, તેમ તારાવડે પિતાને વંશ સર્વજનશ્લાઘનીય છે. વળી સર્વોત્કૃષ્ટ ચંદ્રથી જેમ લક્ષ્મી ભાઈવાળી છે એમ સર્વજનોમાં શ્રેષ્ઠ એવા તારાવડે હું ભાઇવાળી છું. ૫.
त्वद्वधमुखसुधांशुसुधायाः, पानमुत्सुकतया प्रविधिस् ।
मद्विलोचनचकोरशकुन्तौ, चापलं रचयतश्विरमेतौ ॥५१॥ हे बन्धो, एतौ दृश्यमानौ मद्विलोचने मम नेत्रे एव चकोरशकुन्तौ ज्योत्स्नाप्रियपक्षिणी चिर बहुकाल यावश्चापल चञ्चलताम् । उत्कण्ठतामित्यर्थः । रचयतः कुर्वाते । किंकर्तुमिच्छ्र । उत्सुकतया उत्कण्ठितत्वेन त्वद्वध्वास्तव जायायाः । 'दाराः क्षेत्र वधूर्भार्या जनी जाया परिग्रहः' इति हैम्याम् । मुखं वदनमेव सुधांशुस्तस्य सुधां दर्शनामृतं तस्याः पान पीर्ति प्रविधित्सू कर्तुमिच्छू । 'कणेहत्य चकोरीणां, गणः पीत्वा सुधासवम् । अजा. यत मदेनेव, गुजापुजारुणेक्षणः ॥' इति वस्तुपालकीर्तिकौमुद्यां चकोराणां ज्योत्स्नापाने प्रसिद्धेऽपि इत्यमृतपानमपि ॥ इति विमलायाः प्रथमोक्तिः ॥
બ્લેકાર્થ હે બંધુ, તારી વધૂના મુખચંદ્રની સુધાનું પાન કરવાને લુપી બનેલાં આ મારાં બે નેત્રોરૂપી ચર પક્ષીઓ ચિરકાલથી ચપલતાને ધારણ કરે છે. અર્થાત ઉકંઠિત થયાં છે. ' પપ
वाङ्मयविरचितैरिदमाद्यैः, श्रोत्रपत्रपथिकैः स्वभगिन्या ।
प्रेरितो निगदति स्म कुमारो, गर्जितैरिव शिखी घनपङ्क्तेः ॥५२॥
कुमारो हीरनामा बालको निगति स्म बभाषे । किंलक्षणः । प्रेरितः प्रणोदितः ॥ कैः । इदं पूर्वोक्तमाद्य प्रथम येषु तादृशैर्वाङ्मयैर्वाचां प्रपञ्चैः । 'इतीदृशैस्त विरचय्य वाश्मयैः' इति नैषधे। किंभूतैर्वाङ्मयैः विरचितैः प्रणीतैः । उक्तैरित्यर्थः । कया भगिन्या स्वबृहत्स्वना । पुनः किंभूतैः । श्रोत्रयोरर्थात् कुमारस्य कर्णयोः पथिकैः प्राघुणीभूतैः । श्रुतैरित्यर्थः । बभाषे । क इव । शिखीव । यथा मयूरो घनपङ्क्तेः मेघमालाया गर्जितैगरिवैः प्रेरितो वक्ति केकारवं कुरुते ॥
. अर्थ હીરકુમાર, કર્ણપથમાં આવેલાં છે ભગિનીનાં વિસ્તૃત વચનોથી પ્રેરિત થઈને આ પ્રમાણે કહે છે; મેઘના ગરવથી પ્રેરિત થયેલે મયૂર જેમ કેકારવ કરે છે તેમ હીરકુમાર કહે છે. પરા
जीवितं कुशशिखास्थमिवाम्भः, पांशुलेव तरला कमलापि ।
ऐक्षवाग्रमिव यौवतमेतत् , प्रेक्षणक्षण इव स्वजनोऽपि ॥५३॥ हे जामे, जीवितमायुर्जीवितव्य कुशशिखास्थ दर्भाग्रस्थायुकमम्भो नीरमिव वर्तते ।