SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् [सर्ग ५ श्लो० ३९-४१ मितो भवत्या गृहाद्विजयदाननामान मुनीन्द्र सूरि वन्दितु नमस्कर्तुं गतोऽभूवम् । क इव । धारिणीसुत इव धारिणीनामा ऋषभव्यवहारिपत्नी तस्याः सुतो जम्बुकुमारः। सुधर्मस्वामिन श्रीमहावीरपञ्चमगणधर नन्तु गतोऽभूत् ॥ બ્લેકાર્થ વિજયસિંહ શ્રેષ્ઠીની પ્રિયતમા, કમલનયના બહેન ! જેમ આભ શ્રેષ્ઠીની પત્ની ધારિણીના પુત્ર જંબુકુમાર પંચમ ગણધર શ્રી સુધર્માસ્વામીને વંદન કરવા ગયા હતા, તેમ આજે હું શ્રી વિજયદાનસુરિજીને વંદન કરવા ગયો હતો. ૩૯ कीलनैकललित कलयन्ती, या कशेव तुरगस्य भवस्य । देशनाश्रवणगोचरभाव, लम्भिता श्रमणशीतमरीचेः ॥४०॥ हे जामे, श्रमणशीतमरीचेविजयदानसूरीन्द्रस्य सा परमशान्तरसमयी धर्मकथा मया त्वद्भात्रा श्रवणयोः कर्णयोः गोचरभाव विषयतां लम्भिता नीता । श्रुतेत्यर्थः । 'नून न मे श्रवणगोचरतां गतोऽसि' इति कल्याणमन्दिरस्तोत्रे । सा का । या धर्मदेशना भवस्य संसारस्य कीलने ताडने अथ वा कीलनायां पराभवविधानविषये । 'बजते हेलिहयालिकीलनाम्' इति नैषधे । एकमद्वितीय ललित विलास व्यवसाय कलयन्ती बिभ्रती वर्तते । केव । कशेव । यथा कशा चर्मदण्डः 'चाबखो' इति लोके प्रसिद्धा तुरगस्याश्वस्य ताडने अद्वैत व्यापार बिभर्ति ॥ બેકાર્થ હે ભગિની, સાધુઓમાં ચંદસમાન આચાર્ય ભગવંતની ધર્મદેશના મેં સાંભળી. આ ધર્મદેશના જેમ અશ્વને તાડન કરવામાં ચાબૂક એક અદ્વૈત સાધન છે, તેમ સંસારને ફટકો આપવામાં એક અને વ્યવસાયને ધારણ उन्नमज्जलधरादिव जामे, सरिराजवदनादुदयद्भिः । वाणिवैभवरसैद्वयमेतत् , पूर्यते स्म मम कर्णकलश्योः ॥४१॥ हे जामे हे विमले, सूरिराजस्य वदनान्मुखादुदयद्भिः प्रकटीभवद्भिः वाणीनां वाचां विलासा वैचित्र्यास्त एव रसा जलानि तैर्ममेदं मदीयमेतत्प्रत्यक्षशब्दविषयगोचर कर्णी श्रवणावेव कलश्यौ कुम्भ्यो तयोर्द्वय पूर्यते स्म पूर्णीभूतम् । श्रवणशब्दः पुनपुंसके। आलोचनान्तात् श्रवणौ वितत्य' इति लिङ्गानुशासनावचूर्णौ । तथा 'अवलम्बितकर्णशष्कुलीकलशीक रचयन्नवोचत' इति नैषधे । कस्मादिव । उन्नमजलधरादिव । यथा उन्नमतो जलभरैनंम्रीभवतो जलधरान्मेघादुदितैः प्रादुर्भू तैीरेः सलिलैः कलशीद्वन्द्र परिपूर्णीभवति । वाणिशब्दो ह्रस्वोऽप्यस्ति । यथा 'अन्तर्वाणिस्तु शास्त्रवित्' इति हैम्याम् । तथा भर्तृहरशतके प्रोक्तं च-'केयूरा न विभूषयन्ति पुरुष हारा न चन्द्रोज्ज्वला, न मानन विलेपन न कुसुम नालंकृता मूर्धजाः । एका वाणिरलंकरोति
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy