________________
हीरसौभाग्यम्
निश्विकाय विनयानतकाय - स्तत्पुरः शिशुशशी स्वतपस्याम्
शंभुसुभ्रुव इवाम्बुजनाभः, प्रत्यगाच्च भवनं निजजामेः ॥ ३७॥
सर्ग ५ श्लो० ३७ - ३९]
३०५
शिशुशशी कुमारचन्द्रः तस्य सूरेः पुरोऽग्रे स्वस्यात्मनस्तपस्यां दीक्षाग्रहण TM निश्चिकाय अहमवश्य' श्रीमत्पार्श्वे परित्र (ज्यां) जां गृहीष्यामिति निश्चयं कृतवान् । किंभूतः । विनयेन आ सामस्त्येन नतो नम्रीभूतः कायः शरीर ं यस्य । च पूनर्निजजामेर्विमलाया भवनं गृहं प्रत्युज्जगाम । क इव । अम्बुजनाभ इव । यथा कृष्णः शंभुसुभ्रुवः पार्वत्या भवनं प्रति गच्छति । भवानी हि कृष्णभगिनीति कविसमयः । 'भवानी कृष्णमेनाकस्वसा' इति हैम्याम् । अम्भोजनाभः अम्बुजनाभः इत्यादयः प्रयोगाः पाण्डवचरित्रे सन्तीति ॥ इति विजयदानसूरिपुरो हीरकुमारस्य दीक्षाग्रहणनिश्चयकरणम् ॥
શ્લેાકા
વિનયથી અત્યંત નમ્ર શરીરવાળા હીરકુમારચંદ્ર આચાર્યશ્રીની સમક્ષ 'હું અવશ્ય આપની પાસે દીક્ષા ગ્રહણ કરીશ'' આવેા નિશ્ચય કરી, જેમ કૃષ્ણ પેાતાની ભગિની પાર્વતીને ઘેર જાય તેમ પેાતાની જ્યેષ્ઠ ભગિની વિમલાને ઘેર ગયા. ૫૩૭ાા
इच्छता हृदि महोदयलक्ष्मी-सङ्गदूतिमिव जैनतपस्याम् ।
भाष्यते स्म भवनं प्रविभूषयाऽ - नेन भावयतिना निजजामिः ||३८||
अनेन निजजामिः स्वभगिनी भाष्यते स्म भाषिता वादिता । अनेन किंभूतेन । भावेन परिणामेन यतिना साधुना । अथ वा भावे आशये मनसि यतित्व चारित्रम - स्येति तेन भावयतिना । किं कृत्वा भाषिता । भवनमर्थाद्भगिनीभवन: प्रकर्षेण विभूष्य शोभां नीत्वा गृहे आगत्येत्यर्थः । अनेन किं कुर्वता । जिनानां तीर्थकृतामिय जैनी तपस्यां दीक्षामर्थाद् ग्रहीतुमिच्छता हृदये वाञ्छता । उत्प्रेक्ष्यते - महोदयलक्ष्म्या मुक्तिश्रिया महाभ्युदयसंपदो वा सङगे संगमे मिलने दूतिमिव संदेशहारिकामिव । ' तस्याः स्वयं' - वरपरिग्रहदुतिरेषा, मुक्तावली हृदि पद भवतः करोतु' इति चम्पूकथायाम् । 'दूत्यां दूतिरपि स्मृता' इति शब्दप्रभेदे ॥
શ્લેાકા
મુક્તિરૂપી લક્ષ્મીની સાથે સંગમ કરાવવામાં દૂતી સમાન પારમેશ્વરી પ્રવજ્યાને હૃદયમાં ચ્છિતા ભાવમુનિ હીરકુમારે ગિનીના ધરને શેાભાવીન અર્થાત્ ધરે આવીને પેાતાની બહેનને આ પ્રકારે કહ્યું. રામા
धारिणीत वाद्य सुधर्म - स्वामिनं विजयदानमुनीन्द्रम् |
वन्दितु ं विजयसिंहमहेभ्याम्भोजदृग्गत इतोऽहमभूवम् ||३९||
विजयसिंहनामा यो महेभ्यो व्यवहारी तस्याम्भोजदृक् प्रियतमे हे जामे, अद्याह