________________
८
सौभाग्यम्
[ सर्ग १ श्लो० ९-१०
प्रभोः प्रभावादथ वा कथं न प्रभुर्भवामि प्रविधातुमेतत् । स्वःसत्प्रसादात्त्रिदशाचलस्य, शिखासु खेलायति किं न खञ्जः ॥ ९ ॥
अथ वेति स्मरणगर्भे पक्षान्तरे वा । अत्रान्तरे मम गुरुभक्तिप्राग्भारवशाविर्भूतभाग्योदयात्स्मृतिविषयमायातम्, तदेव काव्ये प्रोच्यते । प्रभोहर विजयसूरेः प्रभावान्माहात्म्यादेतत्काव्य प्रविधातु निर्मातुमहं प्रभुः समर्थः कथं न भवामि । अपि तु प्रभुर्भवाम्येव । उक्तमर्थमर्थान्तरेण समर्थयति खञ्जञ्चरणविकलः पुमान् स्वः स्वर्गे सीदति तिष्ठतीति स्वःसदेवस्तस्य प्रसादादनुग्रहात्त्रिदशाचलस्य मेरोः शिखासु अग्रभागभूमी किं न खेलायति न क्रीडति । अपि तु खेलतीत्यर्थः । यथा खज्जो दिव्यानुभावात्सुरशिखरिशिखरे खेलति, तथाहमपि हीरसूरिमाहात्म्यादेतत्काव्य कर्तुं समर्थीभवाम्येव । ' क्रीडति विहरति रमते खेलति खेलायतीति खेलार्थाः इति क्रियाकलापे ॥ इति पीठिकापद्धति
લેાકા
અથવા, હા ! ગુરુભનિવડે પ્રગટ થયેલા મારા ભાગ્યેાથથી સ્મરણમાં આવ્યું કે પ્રભુ શ્રી હીરવિજયસુરીશ્વરજીના માહાત્મ્યથી આ કાવ્ય કરવા માટે શું હું સમર્થ નથી થઈ શકું ? શું લંગડા પુરુષ પણ દેવની મહેરબાનીથી મેરુપર્વતની ટોચ ઉપર ક્રીડા નથી કરી શકતા ? કરી શકે છે, તેમ હું પણ સ્વામીના પ્રભાવથી આ કાવ્ય બનાવવા સમ થઈ શકીશ. પ્રા
सुपर्वभिर्भोगिभिरङ्गिसइ - लीलां स्वयं विभ्रदिव त्रिलोक्या: । प्रेयानिव स्त्रीभिरिहास्ति जम्बू द्वीपोऽव्धिवेलाभिरुपास्यमानः ॥ १० ॥
इह जगति भूमण्डलरूपमध्यमलोके पार्थिवो रजतहेमरत्नमयोऽनादृताभिधानस्य द्वीपाधिदेवस्यावासभूत उत्तरकुरुवर्ती जम्बूवृक्षस्तेनोपलक्षितो द्वीपो जम्बूद्वीपोऽस्ति वर्तते । जम्बूद्वीपः किं क्रियमाणः । उपास्यमानः सेव्यमानः । काभिः ? अच्छेः समुद्रस्य वेलाभिर्जलवृद्विभिः । कः काभिरिव ? प्रेयान् स्त्रीभिरिव । यथा अतिशयेन प्रियः । मातृपितृभ्रातृपुत्रादिसर्वस्वजनेभ्योऽपि पतिव्रतानां स्त्रीणां प्रेमाधिस्य भतयैव तेन प्रेयानिति पदोपादानम् । कान्तः खीभिर्निषेव्यते । जम्बूद्वीपः किं कुर्वन् ? उत्प्रेक्ष्यते - विवदिव धारयन्निव । काम् ? लीलां शोभां विलास वा । कस्याः ? त्रिलोक्या जगत्त्रयस्य । कथम् ? स्वमात्मना । कैः ? क्रीडार्थमागतैर्हिमवद्भिरि सुरसरित्पन्द्महृदादिवासिसिभिर्वा सुपर्वभिर्देवैः । तथा-- भोगिभिर्नागकुमारैः । तथा अङ्गिसंधैर्देहिसाथैः । 'सङ्घः सार्थ - स्तु देहिनां समूहे' । अथवाङ्गिविशेषणान्यपि । अगिसंधैः । किं ? सुशोभनानि पर्वाणि पर्युषणादीपालिकादीनि येषां ते तथा । पुनः किं० भोगो राज्यादिसुखमस्त्येषामिति मत्वर्थीयप्रत्यये भोगिनस्तैः विलासम् । 'लस श्लेपणक्रीडनयोः' इति धात्वर्थत्वादाश्लेषण'