SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सर्ग १ श्लो० १०-११-१२] हीरसौभाग्यम् લેકાર્થ આ મધ્યલોકમાં અનાદત નામના દેવના નિવાસસ્થાનરૂપ સેના-રૂપા અને રત્નમય જંબૂ નામના વૃક્ષથી ઓળખાતે “જબૂ' નામને દીપ છે. તે જંબૂદીપ, પતિવ્રતા સ્ત્રીઓ વડે જેમ પતિની ઉપાસના કરાય છે તેમ, સમુદ્રની વેળાવડે નિરંતર સેવાય છે. તે જંબૂદીપ ક્રીડાને માટે આવેલા દે, નાગકુમારે અને મનુષ્યોના સમૂહ વડે સ્વયં ત્રણે લોકની શોભાને જાણે ધારણ કરતો હોય તેમ અથવા પર્યુષણ, દીપાલિકા આદિ સુચારુ પર્વો તેમજ રાજ્યાદિ સુખ-વૈભવ વડે ત્રણે લોકની શોભાને જાણે સ્વયં ધારણ કરતો હોય તેમ શોભે છે. ૧૦ नीराजयन्तीष्विव चित्रभानु-मादाय दिग्वारविलासिनीषु । संवर्धयन्तीषु पयःपृषद्भि-बेलासु कान्तास्वित्र मुक्तिकाभिः ॥११॥ य शंभुशैलच्छविरोमगुच्छ-चन्द्रातपत्रोद्ध तवाहिनीकम् । वार्धेस्तरङ्गा मगधा इवोर्वी-धवं स्तुवन्तीव गभीररावैः ॥१२॥ ॥ युग्मम् ।। यं जम्बूद्वीप वाघेः समुद्रस्य तरङ्गाः कल्लोलाः। उत्प्रेक्ष्यते-गभीररावैर्मन्द्रस्वरैः स्तुवन्तीव स्तुति कुर्वन्तीव । के इव । मगधा इव । यथा मागधा वंशादिस्तुतिकारिण उर्वीधव पृथ्वीपतिं स्तुवन्ति । किं० जम्बूः । शंभुशैलः कैलासस्तस्य च्छवयः स्फटिकरत्ननिर्यद्द्युतय एव रोमगुच्छाश्चामराणि यस्य तथा चन्द्रो विधुमण्डल एवातपत्र छत्र यस्य । पुनः किं । उद्धता रङ्गत्तरगैरुत्कटा वाहिन्यो नद्यो यस्य । पश्चात्कर्मधारयः। उर्वीधवमपि शंभुशैलच्छविवदुज्ज्वला रोमगुच्छा यस्य । तथा-चन्द्रतुल्यमातपवारण यस्य । तथा-उद्धताः स्वच्छोत्कर्षारिवार तृण मन्यमाना वाहिन्यः सेना यस्य । अत्रापि कर्मधारयः । कासु सतीषु । दिग्वारविलासिनीषु सतीषु दिश पव वाराङ्गनास्तासु । उत्प्रेक्ष्यते-नीराजयन्तीष्विव । नीराजनामारात्रिकां कुर्वतीपु । नीराजनां कुर्वन्तीति नीराजयन्ति । करणे जिप्रत्ययः। नीराजयन्तीति नीराजयन्त्यस्तासु । 'प्रदक्षिणीकृत्य जयाय, सृष्ट्या रराज नीराजनया स राजघः' इति नैषधे । 'नीराजनया आरात्रिकविधानेन' इति तद्वत्तिः । किं कृत्वा । चित्रभानु सूर्यमादाय गृहीत्वा । अन्या अपि वारविलासिन्यश्चित्रभानु वह्निमादाय राजान नीराजयन्ति । 'बध्नो हंसश्चित्रभानुविवस्वान् ' । तथा-'वृषाकपिः पावकचित्रभानू' इति सूर्यवह्निनाम्नी हैम्याम् । पुनः कासु सतीपु । वेलासु समुद्रजलवृद्धिषु सतीषु । किं कुर्वतीषु । संवर्धयन्तीषु अवकिरन्तीपु । उत्प्रेक्ष्यते-वर्धापयन्तीष्विव । वर्धापयन्तीति प्रयोगः कल्पकिरणावल्याम् । कैः । पयसां पानीयानां पृषद्भिविन्दुभिः । कास्विव । कान्तास्विव । यथा कामिन्यः क्षमाकान्त मुक्तिकाभिर्मुक्ताफलैरुपलक्षणालाजैरपि वर्धापयन्ति । 'अवाकिरन्वयोवृद्धास्त
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy