SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३०३ सर्ग ५ श्लो० ३२-३४] हीरसौभाग्यम् मा कृथाः कचन तत्प्रतिबन्ध, बान्धवस्वजनमित्रजनेषु । गन्धवाह इव भूधरसिन्धु-ग्रामसीमपुरभूमिधुनीषु ॥३२॥ हे कुमार, यद्येवं तवाशयस्तत्तदा तर्हि वचन केष्वपि बान्धवा भ्रातरः, स्वजनाः सगोत्राः ज्ञातयः, मित्राणि सुहृदः, तत्प्रमुखेषु जनेषु लोकेषु प्रतिबन्ध ममत्वेन स्नेहेन कृत्वा संसारे स्थायिभाव मा कृथा मा कुर्याः । क इव । गन्धवाह इव । यथा वायुभू. धराः पर्वताः, सिन्धवः समुद्राः, ग्रामाः संनिवेशाः, सीमा ग्रामनगरसमीपबहिःप्रदेशाः, पुराणि नगराणि, भूमयोऽखिलवसुंधरा, धुन्यो नद्यः, तासु प्रतिबन्ध न विदधाति ॥ सार्थ भार, ने तारे। मारने । स४६५ होय , वायु, पता, समुद्रो, गाम નગર, સીમાઓ, પૃથ્વીઓ, કે નદીઓ...આદિ કોઈમાં પ્રતિબંધ કરતો નથી, તેમ તારે પણ ભ્રાતા ભગિની, મિત્રો, આદિ સ્વજનવર્ગમાં પ્રતિબંધ-મમત્વભાવ કરે નહી.' મારા यैरवधि जिनधर्मसुरद्रः, पूर्वजन्मनि जनैरिह तेषाम् । तबलानि कमलाकमलाक्षी, सार्वभौमपदवीप्रमुखानि ॥३३॥ तत्सुमानि सुरवैभवलम्भः, कीर्तयः परिमलोऽप्यदसीयः । सिद्धिमुग्धमृगदृक्परिरम्भाऽऽ-म्भणानि पुनरस्य फलानि ॥३४॥ (युग्मम् ) - हे हीरकुमार, यैर्जनैः पूर्वजन्मनि प्राचीने भवे जिनधर्मरूपः सुरदः कल्पवृक्षोऽवधि वृद्धि प्रापितः, तेषां जनानामिह जन्मनि कमला लक्ष्मीः । अथ च कमला श्रीस्तत्तल्या कमलाक्षी अरविन्दलोचना स्त्री, यया परिणीतमात्रया गृहे चागतया सत्या सर्वतः सौधधनधान्यद्विपदचतुष्पदादिभिः परिपूर्यते सा लक्ष्मीसदृशा पद्माक्षी तथा सार्वभौम सर्वस्या भूमेरीश्वरश्चक्रवर्ती तस्य पदवी एताः प्रमुखाः आदिमाः प्रकृष्टा वा येषु तादृशानि तस्य सुरद्रोदलानि पत्राणि सन्ति । तथा सुराणामुपलक्षणादिन्द्रादीनां वैभवानां संपदां लम्भः प्राप्तिः सा तस्य सुमानि पुष्पाणि । 'प्रसून कुसुम सुमम्' इति हैम्याम् । तथा कीतर्यः सुरासुरनरखेचरकिंनरमिथुनगीयमानयशांसि अपि पुनरस्यायमदसीयः परिमल: आमोदः सौरभम् । सिद्धयो लघिमा, वशिता, ईशत्वम् , प्राकाम्यम् , अणिमा, महिमा, यत्र कामावसायित्वम् , प्राप्तिः, इत्यष्टौ, अन्या अपि मन्त्रतन्त्रविद्यातपःशक्तिप्रमुखाः सिद्धय एव मुग्धमृगदृशो रम्याङ्गनाः । अथ वा सिद्धिर्मुक्तिरेव प्रधानवधूस्ताभिस्तस्या वा सार्धमालिङ्गनानि परिरम्भणानि आसादनानि तेषामारम्भाः प्रक्रमास्तानि पुनरस्य कल्पद्रोः फलानि वर्तन्ते ॥ કલેકાર્થ હે હીરકુમાર પૂર્વ જન્મમાં જે જીવોએ શ્રી જિનધર્મરૂપી કલ્પવૃક્ષનું રોપણ અર્થાત આરાધન કર્યું છે, તે જીવોને આ જન્મમાં સાક્ષાત લક્ષ્મીસમાન પદ્માક્ષી એવી પ્રેમાળ પત્ની, તેમજ
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy