SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सर्ग ५ श्लो० १३-१५] हीरसौभाग्यम् २९५ __ अथ वन्दनविधेरनन्तरम् एष हीरकुमारलक्षणः पृथुकेन्द्रः कुमारपुरंदरस्तस्य सूरेलोचनयोनयनयोः पथे मार्ग । पथशब्दोऽकारान्तोऽप्यस्ति । 'यथा कः पथः स्मृतः' इति । तथापथः पथि स्मृतः' इति शब्दप्रभेदे । नकारान्तो वायम् । 'तत्र टाडका' इति डप्रत्ययः । गुरोरग्रे इत्यर्थः । तस्थिवानुपविष्टः । कथम् । यथासन यथास्थानम् आस्यते उपविश्यते अस्मिन् प्रदेशे इत्यासनम् । पुनः-सा परिषत् सभा तेन हीरकुमारेण कांचिदपूर्वा विभूषां शोभाम्पुषत् पुष्णाति स्म । केव । सक्रियेव । यथा शोभनमनुष्ठान विधिना शास्त्रोक्तप्रकारेण कृत्वा शोभते ॥ इति हीरकुमारागमनगुरुवन्दने ॥ साथ વંદન નમસ્કાર કર્યા બાદ શ્રીહીરકુમારેન્દ્ર સૂરિજીના લોચનમાર્ગે, અથવા સન્મુખ યથાસ્થાને બેઠા. જેમ વિધિપૂર્વક કરાયેલું અનુષ્ઠાન અનેરી શોભાને ધારણ કરે છે, તેમ હીરકુમારથી વ્યાખ્યાનસભા અનેરી શોભાને ધારણ કરતી હતી. ૧૩ देशनां शमवतां शतमन्युः, स प्रबोधयितुमङ्गिसमाजम् । प्रादिशद्वरयिता वसतीनां, कौमुदीमिव वन कुमुदानाम् ॥१४॥ स महावीरपट्टपरम्परायातो विजयदानसूरिः नामा शमवतामुपशमिनां साधूनां मध्ये शतमन्युः शतक्रतुः शक्रः देशनां धर्मोपदेश प्रादिशद्ददौ । व्याख्यान करोति स्मेत्यर्थः । किं कर्तुम् । अगिनां भव्यप्राणिनां समाज सभां प्रबोधयितु धर्मे स्थापयितुम् । क इव । वरयितेव । यथा वसतीनां रात्रीणां कान्तश्चन्द्रः कुमुदानां कैरवाणां वन काननमाकर था प्रतिबोधयितु विकाशयितुं कौमुदी चन्द्रिका प्रदिशति । विस्तारयतीत्यर्थः ॥ જેમ ચંદ્ર કુમુદ વનને વિકતવર કરવા માટે ચંદ્રિકાને વિસ્તારે છે, તેમ સાધુઓમાં સમાન શ્રીવિજયદાનસૂરિજીએ વ્યવોને પ્રતિબંધ કરવા માટે ધર્મદેશના વિસ્તારી. ૧૪ इन्द्रवारणमिवेयमसारा, संसृतिः कृतदुरन्तचिकारा । पङ्किलावट इवात्र निमग्ना, निर्गमे न भविनः प्रभवन्ति ॥१५॥ भो भव्याः, इयं संसृतिः संसार इन्द्रवारणनाम कटुक फल तद्वदसारा । इन्द्रवारणफल हि बहिश्यमान रम्य पर मध्ये निःसारम् अतिकटुकतया केनापि खादितुमशक्यत्वाद्विषफलवत् तथा संसृतिरपि । किंभूता संमृतिः। कृतो निष्पादितो दुर्दुष्टोऽनन्तदुःखदायकत्वेन अन्तोऽवसान यस्य तादृशो विकारो विकृतिर्यया । फलमपि दुष्टविकृतिकृत् । तथा अत्र संसारे निमग्ना बडिताः । पतिता इत्यर्थः । भविनो जीवा निर्गमे निःसरणे विषये न प्रभवन्ति नैव समर्थीभवन्ति । निगोदादिष्वनन्तपुद्गलपरावर्तकर्तृ त्वेन । कस्मिन्निव । पङ्किलावट इव । यथा जम्बालजालाकलितकूपे निमग्ना निमज्य स्थिता जन्तवो निर्गन्तुन प्रभवन्ति ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy