________________
सर्ग५ श्लो० ८-१०] हीरसौभाग्यम्
२९३ स हीरकुमारस्तेन पत्तनागमनसमये व्यावर्णितेन रथेन शतागेन पथि पत्तनमध्यमार्गे संचरन् प्रचलन्नुपमुनीन्द्रनिकेत गुरोरुपाश्रयसमीपं प्राप्तवान् समायातः। उत्प्रेक्ष्यते-मूर्ति शरीर दधता बिभ्रता विभोः सूरेर्वीक्षा दर्शन तत्रोत्कण्ठितस्यात्युत्सुकितस्यास्य कुमारस्य मनसश्चित्तस्य रंहसा वेगेनेव रथेनेत्यसावुत्प्रेक्षा ॥
___ સૂરિજીના દર્શનની અતિઉત્સુકતાને ધારણ કરતો, જાણે મનને મૂર્તિમાન વેગ ન હોય ! એવા પ્રકારના પવનવેગી રથવડે હીરકુમાર પાટણના રાજમાર્ગ પર ચાલતા ગુરુદેવના ઉપાશ્રયની નજીકમાં પહોંચ્યા. ૮
स्यन्दनान्मणिहिरण्यवरेण्य-श्रीजुषः प्रमदभेदुरिताङ्गः ।
स्वर्गिवर्ग इव नाकिविमाना-दुत्ततार भुवि हीरकुमारः ॥९॥
हीरकुमारः स्यन्दनाद्रथाद् भुवि पृथिव्यामुत्ततार उत्तरति स्म। गुरु वन्दितुमिति शेषः । किंभूतः कुमारः । प्रमदेन हर्षेण मेदुरित पुष्टिप्राप्त पुष्ट जात वा अङ्ग शरीर यस्य । स्यन्दनात्कस्मात्क इव । नाकिविमानात् स्वर्गिवर्ग इव । यथा देवयानाद्देववजो भूमौ उत्तरसमवसरणस्थ जिन नन्तुमिति शेषः । किंभूताद्रथाद्विमानाच्च । मणिभी रत्नैहिरण्यैः सुवर्णैर्वरेण्यां प्रकृष्टां श्रियं जुषते सेवते इति ॥
કલેકાર્થ જેમ દેવોને સમૂહ, સુવર્ણ અને રત્નોની રચનાથી સુશોભિત એવા દેવવિમાનમાંથી સમવસરણ ભૂમિમાં શ્રાજિનેશ્વરને નમસ્કાર કરવા માટે ઉતરે છે, તેમ શ્રી હીરકુમાર સુવર્ણ ને રત્ન વડે સુશોભિત રથમાંથી ગુદેવને નમસ્કાર કરવા માટે અત્યંત હર્ષ પૂર્વક નીચે ઉતર્યા. મહા
सूरिवत्रविधुवीक्षणजन्माऽऽ-नन्ददुग्धनिधिफेन इवोद्यन् ।
चन्द्रिकाच्छुरितरुग्दशनाना-मानने स्मितमनेन वितेने ॥१०॥
अनेन हीरकुमारेण आनने स्वमुखे स्मितमीषद्धसित वितेने विदधे चक्रे। किंभूत स्मितम् । दशनानां दन्तानां चन्द्रिकया दीप्त्या छुरिता व्याप्ता । 'दशनचन्द्रिकया व्यवभासितम्' । इति तथा 'चन्द्रच्छुरितं वपुः' इति पाण्डवचरित्रे । रुक्कान्तिर्यस्य तत् । उत्प्रेक्ष्यते-उद्यन् प्रकटीभवन् सूरेविजयदानगुरोर्वत्र मुखमेव विधुश्चन्द्रस्तस्य वीक्षणादर्शनाजन्मोत्पत्तिर्यस्य तादृशो य आनन्दो हर्षः स एव दुग्धनिधिः क्षीरसमुद्रस्तस्य फेनो डिण्डीर इव ॥
કલેકાર્થ આ હીરકુમારે પોતાના મુખમાં સુરિજીના દર્શન માત્રથી, દાંતોની કાંતિથી વ્યાપ્ત એવું કંઈક હાસ્ય કર્યું. તે જાણે સરિજીના મુખરૂપી ચંદ્રના દર્શનથી ઉત્પન્ન થયેલા આનંદરૂપી ક્ષીરસમુદ્રનું ફીણ ન હોય ! /૧૦