________________
सर्ग ५ श्लो० ३-५ ]
हीरसौभाग्यम्
२९९
आगतैः समायातैर्नागरैः पत्तनसकजनैरेष विजयदान सुरिनिषेवे ( १ ) भेजे । किं कुर्वद्भिः । व्याहृत ं सूरिवचस्तदेवामितं प्रमाणरहितं मधु क्षौद्र ं स्पृहयद्भिः । 'अमित' मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः' इति नैषधे । कैरिव । मधुक्क निकुरम्बकैरिव । यथा भृङ्गगणैः गन्धेनोपलक्षितः सिन्धुरो वारणो गन्धहस्ती निषेव्यते । किं कुर्वद्भिः । दानवारि मदाम्भः काङ्क्षभिः ॥
લેાકા
મદજલના લાલુપી ભ્રમરોના સમૂહવડે જેમ ગંધતિ સેવાય તેમ આચાર્યશ્રીની વાણીરૂપી સુધાનું પાન કરવા ઈચ્છતા નાગરિકાવડે શ્રીવિજયદાનસૂરિજી સેાતા હતા. ઘા
सूरिशक्र परिषत्कृत भूपै - स्तद्भवेषणरसादनिमेषैः । बाक्सुधारसपिवैः पुरलोकै-भूगतैरिव बभे मुरलोकैः ॥४॥
पुरलोकैर्नागरजनैर्वमे शुशुमे । किंभूतैः पुरलोकैः । सूरिशक्रस्याचार्यपुरंदरस्य परिषत्सभा | 'पत्परिषदा सह' इति शब्दप्रभेदे । तत्र कृता निर्मिता भूषा शोभा यैस्तैः । पुनः किंभूतैः । तस्य सूरीन्द्रस्य अर्थाद्गुरुमुखस्य यद्भवेषणं दर्शन तस्य रसादनुरागान्न विद्यते निमेषो नेत्रनिमीलनं येषाम् । पुनः किंभूतैः । वाक् गुरोर्वाणी सेव सुधारसोऽमृतनिःस्यन्दः तं पिवन्तीति । उत्प्रेक्ष्यते - भूगतैः पृथ्वीप्राप्तैभूमौ समेतैर्वा सुरा देवा एवं जनास्तैरिव । तेऽपि शकसभाविद्दितशोभा निमेषरहिताः पीयूषपायिनश्च भवन्ति ॥
શ્લાકા
વિવિધ પ્રકારની વેષભૂષાને ધારણ કરનારા, ગુરુમુખના દર્શનમાં નિર્નિમેષ બનેલા તેમજ ગુરુની વાણીરૂપી સુધાનું પાન કરવામાં લીન બનેલા એવા નારિકાર્ડ આચાર્યશ્રીની સભા શેલતી હતી. તે જાણે પૃથ્વી ઉપર આવેલી દેવલેની સભા ન હોય ! ૫૪u
आत्मनामिव वतंसविधित्सा-त्युत्सुकैर्विकच कोकनदेन 1
पौरमौलिभिरचुम्ब्यत सूरेः, संसदात् पदयुगं युगबाहोः ||५||
"
पौरमौलिभिर्नागरोत्तमाङ्गैः संमदादानन्दात्सूरे विजयदानगुरोः पदयुग चरणद्वन्द्वमम्यत । पदयोर्नीभूतः इत्यर्थः । किंभूतस्य गुरोः । युगवद्धूसर इव दीर्घौ बाहू यस्य । आजानुबाहुत्वादिद विशेषणम् । उत्प्रेक्ष्यते - आत्मनां स्वेषां विकचेन स्मितेन कोकनदेन रक्तोत्पलेन वर्तसस्य शेखरस्य या विधित्सा कर्तुमिच्छा तत्रातिशयेन उत्सुकैरुत्कण्ठितैरिव । 'वष्टि भागुरि:-' इति सूत्रेण अवोपसर्गस्याकारस्य लोपः ॥ इति गुरोः पौरा मनवन्दने ॥