________________
२९०
हीरसौभाग्यम्
[सर्ग ५ श्लो० १-३
पञ्चमः सर्गः । आजगाम विहरन् स धरित्र्यां, पत्तने विजयदानमुनीन्द्रः । राजहंस इव जहनुमुतायाः, प्रोल्लसत्कमलशालिनि नीरे ॥१॥
अथ चतुर्थसर्गानन्तर पञ्चमसर्गप्रारभ्मे स पूर्व व्यावर्णितस्वरूपो विजयदाननामा मुनीन्द्रः साधुशको धरित्र्यां गुर्जरदेशविशेषोऽभिधान तत्र विहरन् ग्रामानुग्राम विचरन् सुखं सुखेन विहार कुर्वन् पत्तने अणहिल्लपाटकाभिधाने पुटभेदने आजगाम आगत्य समवसृतः । किंभूते पत्तने । प्रोल्लसन्ती वृद्धिं प्राप्नुवन्ती कमला लक्ष्मीस्तया शालिनि शोभनशीले । तत्पुरुष इस्वत्वम् । अथ वा प्रकर्षण निरन्तरतया वासस्थानत्वादुल्लसन्ती हृष्यमाणा कमला श्रीयंत्र तथा शोभनशीले । क इव । राजहंस इव। यथा राजमरालो जहूनुसुताया गङ्गाया नीरे आगच्छति समायाति । किंभूते नीरे। प्रोल्लसन्ति विज़म्भमाणानि यानि कमलानि तैः शालते इत्येवंशीले शोभाकलिते । 'महानन्दसरो. राजमरालायाहते नमः' इति सकलाहत्प्रतिष्ठाने ॥
કલેકાર્થ હવે પાંચમા સર્ગના પ્રારંભમાં જેમનું સ્વરૂપ પૂર્વે કહેવાયું છે એવા શ્રી વિજયદાનસૂરીશ્વરજી ગુર્જરદેશમાં રામાનુગ્રામ વિહાર કરતાં નિરંતર હર્ષથી ઉલ્લસિત લક્ષ્મીના સ્થાનરૂપ અણહિલપુર પાટણમાં આવીને સમવસર્યા, જેમાં અનેક પ્રકારના વિકસિત કમલ છે એવી ગંગાનદીમાં જેમ રાજહંસ શોભે તેમ પાટણ નગરીમાં શ્રીવિજ્યદાનસૂરિ શોભતા હતા. આ
सांप्रतीनयुगजन्तुपवित्री-कर्तुरर्हत इव व्रतिभर्तुः ।
आगम श्रवणगोचरयित्वा, नागरा हृदि ननन्दुरमन्दम् ॥२॥
नागराः पत्तनश्राद्धजना हृदि हृदये अमन्द बहु ननन्दुहृषुः । 'परिचरणामन्दनन्दनखेन्दुः' इति नैषधे । किं कृत्वा । आगममागमन श्रवणयोः कर्णयोर्गोचरयित्वा गोचर विधाय । श्रुत्वेत्यर्थः । कस्य । व्रतिभर्तुर्विजयदानसूरेः । उत्प्रेक्ष्यते-सांप्रतीन आधुनिको युगः कलिकालः तस्य तस्मिन् वा ये जन्तवः प्राणिनस्तान् पवित्रीकर्तुः पावनीकरणशीलस्य । शीले तृञ् । अर्हतस्तीर्थकरस्येव ॥ .
साथ પાટણનગરમાં શ્રીવિજ્યદાનસૂરીશ્વરજીનું આગમન સાંભળીને નાગરિકે અત્યંત હર્ષને પામ્યા. તે આ કલિયુગમાં પ્રાણિઓને પવિત્ર કરવા માટે જાણે સાક્ષાત શ્રીતીર્થકર પધાર્યા ન હૈય! પારા
व्याहृतामितमधु स्पृहयद्भि- गरैरुपगतैर्गणधारी । दानवारि मधुकृन्निकुरम्बन्धसिन्धुर इवैष नि(सि)षेवे ॥३॥