________________
२८८
हीरसौभाग्यम् [सर्ग ४ श्लो० १४७-१४८ पञ्चाक्षी दमितुं च पञ्चविकृतीस्तत्याज यः सर्वदा ।
प्राणश्यस्तरणेहा इव पुनर्वस्योदये दुई शः ॥१४७॥
यस्य श्रीविजयदानसूरेर्वाचा अर्थादुपदेशेन कृत्वा गलराज इति नामा मन्त्रिषु प्रधा. नेषु मुकुटः कोटीरः गलराजः । अथ वा 'गलो महतो' इति लोके प्रसिद्धः । स षट्सु मासेषु भवा पाण्मासिकी। षण्मासान् यावदित्यर्थः । मुक्ति 'मुगतउ' इति प्रसिद्धां केनापि कस्यापि पार्वे शुल्कद्रविण न मार्गणीयम् अहमेव श्रीमदुक्तं यथेप्सित द्रव्य दास्यामीत्यधिपस्य प्रोक्त्वा या यात्रिकाणां यात्रा कार्यते सा मुक्तिरिति तां निर्माप्य कारयित्वा सिद्धगिरौ श्रीशत्रुजये भरतवत् ऋषभदेवनन्दनप्रथमचक्रवर्तिसंघपतिरार्षभिरिव यात्रिकैर्यात्रां कर्तुमागतैः संघजनैः सम सार्ध यात्रां व्यधाञ्चकार । च पुनर्यः सूरिः सर्वदा यावजीवं पञ्चविकृतीस्तत्याज । अहासीजहौ । उत्प्रेक्ष्यते-पञ्चानामक्षाणां समा. हारः पञ्चाक्षी पञ्चेन्द्रियाणि तां दमितु यन्त्रयितुम् अथवा स्ववशीकर्तुं किमु । इति गर्भितोत्प्रेक्षा । पुनर्यस्य सूरेरुदये माहात्म्यप्रादुर्भावे समागमनसमये वा दुर्दशः कुपाक्षिकाः प्राणश्यन् पलायिताः । क इव । ग्रहा इव । यथा तरणे नोरुदये ग्रहा उपलक्षणान्नक्षप्रताराः प्रणश्यन्ति ॥
બ્લેકાર્થ મંત્રીઓમાં મુગટ સમાન ગલરાજ' નામના મંત્રીને, શ્રીવિજયદાનસૂરિ મહારાજે ઉપદેશ દ્વારા પ્રતિબોધ કર્યો હતો. તે પ્રતિબોધ પામેલા મંત્રીએ છ માસ પર્યત સિદ્ધગિરિના યાત્રિક પાસેથી યાત્રાવેરો રદ કર્યો અને જે ગુરુમહારાજના વચનથી યાત્રિકે સાથે સિદ્ધગિરિની યાત્રા કરીને ભરત ચક્રવર્તીની જેમ સંઘપતિ બન્યો હતો. વળી શ્રી વિજયદાનસૂરિ મહારાજ, પાંચ ઇંદ્રિયોના દમન માટે માવજીવન પાંચ વિગઈઓના ત્યાગી હતા. જેમ સૂર્યને ઉદય થતા પ્રહ, નક્ષત્ર અને તારાઓને સમૂહ અદશ્ય થઈ જાય છે, તેમ શ્રીઆચાર્ય મહારાજના ઉદયથી અર્થાત જે ભૂમિમાં આચાર્ય મહારાજનું પદાર્પણ થતું હતું ત્યાંથી કવાદીઓના સમૂહે પલાયન થઈ જતા હતા. ૧૪૭ના
रत्नानामिव रोहणोऽम्बुरुहिणीप्रेयानिव ज्योतिषाम् ।
विन्ध्याद्रिः करिणामिवामरगिरिः स्वर्भूरुहाणामिव ॥ लब्धीनां वसुभूतिनन्दन इवाम्भोधिः सुधानामिव ।
श्रीमत्सरिशतक्रतुर्भुवि चिरं जीयाद्गुणानां गृहम् ॥१४८॥
श्रीमन्तो गणलक्ष्मीशालिनः शोभाभाजो वा ये सूरय आचार्यास्तेषु तेषां मध्ये वा भद्वैतेश्वर्यकलितत्वेन शतक्रतुरिन्द्र इव इन्द्रः श्रीविजयदानसूरि वि पृथिव्यां चिर गलितावधिकाल जीयाद्विजयताम । किंमतः । गुणानां शमदमादीनां गृह वासः वेश्म । क इव । रोहण इव । यथा रोहणो रनाचलो रत्नानां मणीनां ग्रहम। 'ये रत्नाचलवासिनो हि पुरुषास्तेषां न रत्नोद्यमः' इत्युक्तेः । पुनः क इव । अम्बुरुहिणीनां प्रेयानिव