________________
सर्ग ४ श्लो० १४५-१४७] हीरसौभाग्यम्
२८७ जगर्षिनामा जगउ ऋषिरिति नामाभिधानं यस्य तादृशो विबुधाधीशः पण्डितमण्डलाखण्डलः सौराष्ट्रेषु सम्यक्त्वमित्याख्या नाम यस्यास्तादृशीं कृषि कर्षण सुख निरुपद्रव यथा स्यात्तथा फलवतीं सफलां चक्रे । करोति स्म । क इव । नभो. म्भोद इव । यथा श्रावणमेघः कृषि कर्षण विशेषात्पष्टिक्यवीहिजाति सफलां कुरुते । किं कृत्वा । लुम्पाकान् 'बँका' इत्यभिधानान् कुपाक्षिकान् मूलात्पादादारभ्य प्रोन्मूल्य मूलादुन्मूलयित्वा । कानिव । द्रुमानिव । यथा परिवर्तस्य कल्पान्तकालस्य मारुतः पवनः । तरून् मूलाद् बुनादुन्मूलयति । स्थानकात् कृष्ट्रा बहिः क्षिपति । कैः । निजैरात्मीयविहारैविचरणैः । पवनोऽपि स्वप्रचाररंहोभिः द्रमाणां क्षुद्रतरूणां तृणानामुन्मूलनेन ससार । अथ वा 'नींदण' इति लोकप्रसिद्धन कृत्वा कृषिः सफला स्यात् । विहाराः। किं कृत्वा। यस्य श्रीविजयदानसूरेः आशामादेश मुदा हर्षेण मूर्धनि स्वमस्तके विधाय कृत्वा । कामिव । शीर्षामिव । यथा आप्तप्रभोरहद्भाहारकस्य आप्तस्तीर्थकरः स चासौ प्रभुश्च स्वामी भुवनाधीशस्तस्य शीर्षा 'शेषा' इति प्रसिद्धां कश्चिद्भाग्यवान् लब्ध्वा मौलौ धत्ते ॥
લેકાર્થ પુણ્યશાળી આત્માઓ જેમ શ્રી તીર્થંકરભગવંતની આજ્ઞાને શિરોધાર્ય કરે છે. તેમ શ્રીવિજયદાનસૂરિની આજ્ઞાને હર્ષપૂર્વક શિરોધાર્ય કરી, પંડિતમાં ઈન્દ્ર સમાન શ્રીજગર્ષિ નામના મહાત્મા, કલ્પાંતકાળનો પવન જેમ વૃક્ષોને મૂળમાંથી ઉખેડીને ફેંકી દે છે, તેમ સૌરાષ્ટ્ર દેશમાં પોતાના વિહારડે કુવાદીઓને જડમૂળમાંથી ઉખેડીને સૌરાષ્ટ્ર દેશમાં, શ્રાવણ માસને મેઘની જેમ સમ્યફવરૂપી કૃષિને નિરુપદ્રવ–સફળ બનાવી. ૧૪૫
प्राबोधयद् दुःशकनैकतीव-तपोमहाप्तोक्तिकृतोक्तियुक्तिभिः ।
स तत्र लुम्पाकजन यतीन्द्रो, भास्वानिवाम्भोजवन मरीचिभिः ॥१४६॥
स यतीन्द्रो जगर्षिप्रज्ञांसस्तत्र सौराष्ट्रमण्डले लुम्पाकजन लुकामतभावितलोक प्राबोधयत् बोधयति स्म । काभिः । आप्तोक्तिः सिद्धान्तस्तेन कृता निर्मिता या उक्तीनां युक्तयस्ताभिः । किंभूतः स । (दुःखेन कर्तुं शक्यन्ते दुःशकनानि) तथाभूतानि तीव्राण्यतिदुष्कराणि चतुर्विधाहारप्रत्याख्यानरूपपञ्चषष्ठसप्ताष्टनवदशाद्युपवसनरूपाणि तपांसि तान्येव(महः) प्रतापस्तेषां वा प्रतापस्तमाबिभ्रत्कलयन् । क इव । भास्वानिव । यथा भानुभान मरीचिभिः कान्तिभिः कृत्वा अम्भोजवन कमलकानन प्रबोधयति विकासयति॥
કલેકાર્થ ચાર, પાંચ છે, સાત, આઠ, નવ, દશ આદિ ઉપવાસની ઉગ્ર તપશ્ચર્યા કરતા જગર્ષિ મહાત્માએ, જેમ સૂર્યના કિરણે કમલવનને વિકસિત કરે છે, તેમ સૌરાષ્ટ્રદેશમાં લેકાગચ્છના અનુયાયીઓને પ્રતિબોધ કર્યો હતો. lin૪૬ ..यद्वाचा गलराजमन्त्रिमुकुटो, निर्माप्य पाण्मासिकीं। ..
मुक्तिं सिद्धगिरौ व्यधाद्भरतवद्यात्रां सम यात्रिकैः ॥