________________
सर्ग ४ श्लो० १३८-१४०] हीरसौभाग्यम्
२८३ दक्षिणोत्तरालक्षणा दिशः पवित्रीचक्रे पावनीकृतवान् । क इव । पतिरिव । यथा सरसिरुहिणीनां पद्मिनीनां पतिर्भर्ता सूर्यः रश्मीनां स्वकिरणानां प्रसारैविस्तारणैः कृत्वा सर्वाशाः पुनाति पवित्रयति ॥
શ્લેકાર્થ શ્રીઆનંદવિમલસૂરિ, સમુદ્રની જેમ ગંભીર, મેરુની જેમ ધીર, મહિમાવંત તેમજ બુદ્ધની. જેમ કામવિજેતા હતા. વળી જેમ સૂર્ય પિતાના કિરણોના પ્રસારથી સર્વ દિશાઓને ઉજજપવિત્ર બનાવે છે. તેમ આનંદવિમલસૂરિએ પિતાના વિહારથી સઘળી દિશાઓને પવિત્ર બનાવી હતી. ૧૩૮
यो दक्षिणावर्त इव स्रवन्ती-पतिप्लवे कम्बुकदम्बकेन । वाचंयमानां निवहेन पृथ्वी-पीठे परीतो विनहार सूरी ॥१३९।।
यः श्रीआनन्दविमलसूरिः वाचंयमानां मुनीनां निवहेन वृन्देन परीतः परिवृतः सन् पृथ्वीपीठे भूमण्डले विजहार विहारं कृतवान् । क इव । दक्षिणावर्त इव दक्षिणे पार्श्व आवर्तः कुण्डलनालक्षणो यस्य तादृशः शङ्खः कम्बूनां वामावर्तवतां शङ्खार्ना कदम्बेन गणेन परिवृतः सवन्तीनां नदीनां पत्युभर्तुः समुद्रस्य पयःप्लवे नीरपूरे विहरति विचरति ॥
બ્લેકાર્થ જેમ દક્ષિણાવર્ત શંખ, વામાવર્તી શંખની સાથે સમુદ્રના પ્રવાહમાં વિહાર કરે છે, તેમ શ્રીઆનંદવિમલસરિ, સાધુઓના પરિવારથી પરિવરેલા પૃથ્વી પર વિહરણ કરતા હતા. ૧૩૯
भागीरथीव यड्राह्मी, पुनीते भुवनत्रयम् । पर विशेषः कोऽप्यस्या, निम्नगा न कदाचन ॥१४०॥
- यद्राली यस्य वाणी भुवनत्रयं त्रैलोक्य पुनीते त्रिजगजनान् पवित्रीकुरुते । केव । भागीरथीव । यथा गङ्गा त्रिभितिजैः प्रवाहैः त्रिस्रोतस्त्वेन त्रिभुवन खर्गपातालभूमी' त्रय पवित्रयति । यथा-'विबुधानन्दमन्दिरं वन्दे रसान्तरप्रौढम्' इति चम्पूकथायाम् । विबुधानां देवानामानन्दमन्दिर प्रमोदनमित्यर्थात्स्वर्गमार्गप्रवृत्तम् । 'नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजैः(जे)' इत्यपि रघौ। तथा रसायां पृथिव्याम् , तथा अन्तरे श्वभ्रे अर्थात्पाताले प्रकर्षेण ऊढम् इति चम्पूवृत्तिः । एतद्विशेषणेन त्रैलोक्येऽपि त्रिभिः प्रवाहैर्गङ्गा प्रवहतीति कविसमयः । परमस्य ब्राहया कोऽप्यद्भुतवैभवः अस्या विशेषोऽस्ति यत्कदा. चन कस्मिन्नपि काले निम्नगा निम्न नीचैरवद्य गच्छतीति तादशी न, गङ्गा तु निम्नगा। अथ च यस्य ब्राह्मी सरस्वती सरित् गइमेव त्रिभुवन पुनीते । परं केवलमस्याः को