________________
२८२
हीरसौभाग्यम् सर्ग ४ श्लो० १३७-१३८ मृगारातिव्यालद्विरदशबरव्यूहबहुले,
गिरेवुःसंचारे गहन इव सार्थः पथिजुषाम् ॥१३७॥
यः श्रीसूरीन्दुरानन्दविमलसूरिसुधांशुः कलौ पञ्चमारककाले जनिमतां प्रणिनामाश्रयोऽभवद्वभूव । कलौ किंभूते । तमसामज्ञानानां पापानां च स्तोमः समूहस्तेन प्रायो बहुलः(तस्मिन्)। पुनःकिंभूते। कुनयनानां दुर्वादिनांकुपाक्षिकाणां च गणैः परिवारैः दारुणतमे अतिशयेन सुदृशां भयकारिणि । ते हि संगताः सन्तोऽनन्तभवपरम्परा वर्धयन्तीति भीतिहेतवः । क इव । सार्थ इवः । यथा सार्थः जनसमुदायः गिरेः पर्वतस्य दुःखेन संचरणं यत्र स दुःखेनोल्लङ्घयितुं शक्ये तादृशे गहने कान्तारे रविकिरणाप्रवेशे शाखाप्रशाखाभिरेकीभूतविविधवृक्षलक्षप्रदेशे पन्थान जुषन्ते सेवन्ते इति कृत्वा पथिजुषः पान्थास्तेषामाश्रयो विश्रामस्थान शरणं भवति । किंभूते गहने । मृगारातयः सिंहाः, व्याला भुजगा दुष्टा गजा वा, द्विरदाः पारे हस्तिनः, शबरा भिल्लाः, तेषां व्यूहैः समूहैबहुले निर्भरभृते । पुनः किंभूते । तमःस्तोमप्राये अन्धकारभृते । पुनः किंभूते । कुनयनानां दृष्टिविषसर्पाणां गणैर्दारुणतमे अतिभीषणे ॥
सास અતિધર વાઘ, સિંહ, સર્પો અને પ્લેચ્છાદિ જાતિઓ વડે ભયંકર અને ગીચની શ્રેણિ એથી ગાઢ અંધકારમય એવી પર્વતની ભયંકર અટવીમાં પર્યટન કરતા મુસાફરોને “સાર્થ જેમ વિશ્રામરૂપ બને છે, તેમ અનંત ભવપરંપરાના કારણભૂત કુવાદીઓના સમૂહવડે ભયંકર એવા કલિયુગમાં, અજ્ઞાનરૂપી અંધકારમાં ઢસડાતા ભવ્ય છે માટે શ્રી આનંદવિમલસૂરિ એક આશ્રયરૂપ બની રહ્યા હતા. ૧૩છા
गभीरिम्णा पायोनिधिरिव महिम्नापरमरु
दि। श्वेतोजन्मप्रतिभटतया वा गगनजित् । प्रसारै रश्मीनां सरसिरुहिणीनामिव पतिः,
पवित्रीचक्रे यो विहृतिभिरशेषा अपि दिशः ॥१३८॥
यो भगवान् गभीरिम्णा गाम्भीर्येण कृत्वा । उत्प्रेक्ष्यते-पाथोनिधिः समुद्र इव वर्तते । पुनर्म हिना माहात्म्येन कृत्वा महतो भावो महिमा । 'लोहितादेडित् इमन् ' इति सारस्वतसूत्रेण इमन्प्रत्ययः । उत्प्रेक्ष्यते-अपरोऽन्यो मरुतां देवानां गिरिः पर्वतः । अन्यो मेरुरिव । वा पुनरुत्प्रेक्ष्यते-चेतसि जन्मोत्पत्तिर्यस्य स स्मरस्तस्य प्रतिभटतया शत्रुत्वेन गगनजिद् बुद्ध इव । 'बुद्धस्तु सुगतो धर्ममारलोकखजिद्धर्मराजो विज्ञानमातृकः' इति हैम्याम् । समुद्र इव गम्भीरः मेरुरिव महिमावासः । बुद्ध इव कामजेतेत्यर्थः । तथा यो गुरुविहृतिभिः स्वविहारैः कृत्वा अशेषाः समस्ता अपि चतस्रः पूर्वापश्चिमा