________________
सर्ग ४ श्लो० १३३-१३४] हीरसौभाग्यम्
२७९ यः श्रीआनन्दविमलसूरिः जन्मिभिर्भविकैः शिश्रिये श्रितः । किं कृत्वा । कुदृशः सौगतादीन् च पुनरशेषान् समस्तान् कपाक्षिकान् लम्पाकप्रमखान् त्यक्त्वा विमुच्य श्रितः। कैरिव । रोलम्बैरिव । यथा भ्रमरैः किंपाकनामानो महीरुहा महाकालपादपाः विषवृक्षास्तान्विहाय दूरेणापास्य पारिजातशिखरी मन्दारनामा द्रुमो वृक्षविशेषः कश्चित्सेव्यते । अथ वा कल्पवृक्षविशेषः । कल्पः. पारिजातः, मन्दारः, हरिचन्दनः, संतानः, एते पञ्चापि देवद्रुमाः। कल्पद्रुमेष्वपि विशेषः पारिजातः । यथा रघौ-कल्पद्रुमाणामिव पारिजातः' इति । अपि पुनर्येन भगवता शिथिलीभवन् प्रमादपदवीं परिगच्छन् यो मुनीनां साधूनां पन्था मार्गस्तस्मादात्मा स्वजीव उद्धतः । उत्प्रेक्ष्यते-उद्धता उत्कटा ये कुदृशो दुर्वादिनः नैयायिकादयः परपाक्षिकाः कुमतमतोद्बोधका वा त एव यादोव्रजा दुष्टजलचरनिकराः मकरादयस्तैर्व्याकुलासंकीर्णपरिपूर्णीभूताद्भयंकराद्वा संसारोऽनन्तधाभवपरम्पराभ्रमणरूपः स एवापारत्वादम्बुधिः समुद्रस्तस्मादिवोद्धृतः पार प्रापितः ॥
જેમ ભ્રમરે કિપાક આદિ વિષવૃક્ષોને ત્યાગ કરી મંદાર નામના વૃક્ષને આશ્રય કરે છે, તેમ ભાવિકે એ, બૌદ્ધ, લુંપાક આદિ કુવાદીઓનો ત્યાગ કરી શ્રી આનંદવિમલસૂરિને આશ્રય લીધો હતો, વળી, આનંદવિમલસૂરિએ, શિથિલાચારને પામેલા પ્રમાદી સાધુઓના ગચ્છનો ત્યાગ કરી, તેમાંથી પોતાની જાતનો ઉદ્ધાર કર્યો હતો, તે જાણે નૈયા યિકે આદિ કુવાદીઓ રૂ૫ ભયંકર જલજંતુઓ વડે વ્યાપ્ત એવા અનંત ભવપરંપરાના કારણભૂત સંસાર સમુદ્રમાંથી પોતાને ઉદ્ધાર કર્યો ન होय ? ॥1331
शुद्धां क्रियामुद्धरतोऽस्य भाविनी,मद्वत् प्रवृद्धिस्तमितीव शंसितुम् । स्वप्नेऽनुयुक्तेरनु कस्यचिजिन-ध्यातुर्द्वितीयेन्दुरदर्शयनिजम् ॥१३४॥
जिनस्य श्रीपार्श्वनाथस्य ध्यातुानकर्तुः । पार्श्वनाथमन्त्राराधकस्येत्यर्थः । कुमरगिरिसत्कस्य कस्यचित् श्राद्धस्यानुयुक्तेः प्रश्नादनु पश्चात्स्वप्ने स्वापजागरावस्थायामुपविष्टस्यैव प्रभोः पुरः किंचिन्निद्रानिमीलितनयनस्य द्वितीयेन्दुः उदयद्वितीयादिनचन्द्रः निजमात्मानमदर्शयत् दर्शयति स्म । उत्प्रेक्ष्यते-इत्यमुना प्रकारेण शंसितु कथयितुमिव । इति किम् । मद्वद्यथाद्य विविधातोद्यवादनजननमस्करणमहोत्सवविधानपूर्वकमहमुदितो दिने दिने चन्द्रिकाकलादिभिर्मम वृद्धि विनी । तथा-शुद्धां निर्दोषां क्रियां यथावत्साधुमार्गानुष्ठानमुद्धरतोऽनुतिष्ठतः। विशुद्धक्रियोद्धार विदधत इत्यर्थः । अस्य श्रीआनन्दविमलसूरेः प्रकर्षेण शिष्यप्रशिष्यमाहात्म्यादिभिर्वृद्धिर्भवित्री भविष्यतीति। तथा-क्रियोद्धारविधित्सुना सूरीन्द्रेण कश्चित्सिद्धश्रीपार्श्वनाथमन्त्रः श्राद्धः प्रथम पृष्टस्तेन च ध्यान विदधता किंचिन्निद्रामुद्रितनेत्रेणाभ्युदयमान द्वितीयाचन्द्र दृष्ट्वा समेत्य प्रभुपुरः प्रोचे । याय द्वितीयाचन्द्र इव दिने दिने वर्धमानाभ्युदयभाजो भविष्यथ, तत्त्वरितमेव क्रियोद्धार कुरुत, विलम्बो नैव विधेयः । ततः श्रीआनन्दविमलसूरिणा श्रीहेमविमलसूरिशासनपूर्व शुद्धक्रिया उद्धृता इति वादः ॥