________________
श्रीरसौभाग्यम्
[ सर्ग ४ श्लो० १३१-१३३
'नवद्वयद्वीपपृथग्जयश्रियाम्' इति नैष्ये । अष्टादशशतश्रमणपरिवार इत्यर्थः । यः श्रीहेमबिमलसूरिः शीलेन दृढब्रह्मचर्येण कृत्वा अत्र जगति । उत्प्रेक्ष्यते - अपरोऽम्यः किमु ( जम्बुगणनाथ जम्बुस्वामी वा महिम्न उदयेन अपरो) वज्रस्वामी जज्ञे ॥ इति श्रीहेमविमलसूरिः ॥ લેાકા
સુમતિસાધુસૂરિની પાટે, અઢારસા સાધુઓવડે સેવાતા, મહિમાવંત શ્રી હેમવિમલ’ નામના આચાર્ય થયા તે હેમવિમલસૂરિ, નૈષ્ઠિક બ્રહ્મચર્યના પાલનથી જાણે બીજા જ ભૂસ્વામી અથવા માહાત્મ્યના ઉદયવડે ખીન્ન વસ્વામી ઉત્પન્ન થયા ન હેાય ! તેમ જણાય છે. ૧૩૧૫
२७८
विभूषामद्वैतामकलयदथ आनन्दविमले,
व्रतीन्द्रे विद्राणाऽखिलकुदृशि तत्पट्टकमला ।
वसन्ते वासन्तीतिरिव पुनर्धर्मजयिनि,
क्षिर्तीन्द्रे राज्यश्रीरिव विजितविश्वप्रतिभटे ॥ १३२ ॥
अथानन्तर ं तस्य श्रीहेमविमलसूरेः पट्टकमला पदलक्ष्मीः आनन्दविमलनाम्नि व्रतिनां साधूनामिन्द्रे पुरंदरे सूरिशक्रे न विद्यते द्वैत युगलमर्थादपर वस्तु तुल्यं यस्याः साऽद्वैता ताम् । असाधारणीमित्यर्थः । विभूषां शोभामकलयत् दधार । किंभूता । विद्राणाः पलायिताः । 'विद्वाणे रणचत्वरात्' इति नैषधे । अखिलाः समग्रा अपि कुदृशः परपाक्षिकाः कुमतभाजः परवादिनो वा यस्मात् । पुनः केव । वासन्तीततिरिव । यथा मधुसमये माधवी अतिमुक्तकी नाम लतापक्तिरनन्यां श्रियं बिभर्ति । पुनः केव । राज्यश्रीरिव । धर्मेणोपलक्षितः । अथ वा । धर्मेण कृत्वा जयोऽस्यास्तीति धर्मजयी, तादृशे क्षितीन्द्रे पृथ्वी पुरंदरे राज्यश्री भूपत्वलक्ष्मीः शोभां धत्ते । किंभूते नृपे । विजिताः पराभूताः विश्वे सर्वे प्रतिभटा वैरिणो येन ॥
શ્લાકા
શ્રીહેમવિમલસૂરિની પાટ ઉપર અનન્ય શાલાને ધારણ કરનારા, સાધુએમાં ઇન્દ્ર સમાન ‘આન‘વિમલ’ નામના આચાર્ય થયા. ચૈત્રમાસમાં જેમ માધવીલતા શાભાને પ્રાપ્ત કરે, તેમ આનંદવિમલસૂરિ, સમસ્ત વાદીઓને જીતવાથી અપૂર્વ શેાભાને ધારણ કરનારા બન્યા. જેમ રાજા, શત્રુઓને પરાભવ કરી રાજ્યલક્ષ્મીને શેાભાવે તેમ આનંદિવમલસૂરિ પરવાદીઓને પરાભવ કરી ધર્મલક્ષ્મીને શાભાવનારા હતા. ૫૧૩૨૫
त्यक्त्वाशेषकुपाक्षिकांश्च कुदृशः किंपाकभूमीरुहान्,
रोलम्बैखि पारिजातशिखरी यो जन्मिभिः शिश्रिये । येनात्मा शिथिलीभवन् मुनिपथादप्युद्घृतः सूरिणा,
संसाराम्बुनिधेरिवोद्घृतकुदृग्यादो व्रजव्याकुलात् ॥ १३३॥