________________
२७५
सर्ग ४ श्लो० १२६-१२७] हीरसौभाग्यम्
बाल्येऽपि रश्मीन् सरसीजबन्धु-रिवावधानानि वहन् सहस्रम् । अष्टोत्तरं वर्तुलिकानिनाद-शत स्म वेवेक्ति धियां निधिर्यः ॥१२६॥
यो मुनिसुन्दरसूरि ल्येऽपि शैशवे क्षुल्लकत्वेऽपि अष्टाभिरधिक वर्तुलिकानां कञ्चोलिकानां 'वाटका कच्चोली' इति प्रसिद्धानां निनादानां शब्दानां शत क्ववित्सहस्रमपि वेवेक्ति पृथक् पृथक् कृत्वा कथयति स्म । पत्तनसमागतैरभुक्तदेशोपेतपण्डितद्विज पत्रावलम्बन विधाय प्रतिपत्तनपण्डितस्थान जलभृतकु(कम)ण्डलकं तृणपूलकच स्खशिष्यैर्मोचय. न्त तच्छिष्यनिर्धाटनपूर्वक मुनिसुन्दरशिशुना राजसभायां स्वेन सार्ध समागतचतुरशीतिपौषधशालासत्काचार्यैर्वादे जायमाने षण्मास्यन्ते राजकथनपूर्व स्वादृष्टाष्टोत्तरशतवतुलिकानां पृथक् पृथक् शब्दान् कथयित्वात विजिग्ये । पदप्रणम्रीचक्रे चेति भावः। किंभूतः । धियां विशिष्टबुद्धीनां निधिनिधानम् । किं कुर्वन् । सहस्रं दशशतीमवधानानि बहुप्रकारधारणाविशेषान् वहन् विभ्रत् । क इव । सरसीरुहवन्धुरिव । यथा । भास्वान् बाल्येऽपि रश्मीन् सहन रश्मीन् वहते धारयति ॥
લોકાર્થ જેમ બાલ સુર્ય પણ હજાર કિરણ ધારણ કરે છે, તેમ બાલ્યકાળમાં પણ એક આઠ અથવા એક હજાર ને આઠ અવધાનને કરનારા બુદ્ધિનિધાન શ્રી મુનિસુંદરસૂરિએ બાલ્યકાળમાં વાટકાના એકસો આઠ અથવા એક હજાર આઠ અવાજોને પૃથક્ પૃથક્ કરીને કહ્યા હતા. ! તે આ પ્રમાણે-કઈ એક દેશનો બ્રાહ્મણ પંડિત, પોતાના શિષ્યો દ્વારા, પ્રત્યેક નગરના પંડિતેના સ્થાનમાં જલથી ભરેલું કમંડલ અને ઘાસના પૂળા મુકાવતો, ત્યારે ચોરાસી આચાર્યો સહિત બાલ્યાવસ્થામાં રહેલા મુનિસુંદરસૂરિએ, તે પંડિતની સાથે રાજસભામાં છ માસ પર્યત વાદવિવાદ કરીને, અને રાજાના કહેવાથી અદશ્ય રાખેલા એકસો આઠ વાડકાના અવાજને ભિન્ન ભિન્ન કહી બતાવીને, તે પંડિતને જીતી લીધે. અર્થાત પિતાના ચરણને ચૂમતા કરી દીધું. ૧૨
अलम्भि याम्यां दिशि येन काली-सरस्वतीद बिरुद बुधेभ्यः । रवेरुदीच्यामिव तत्र तेजोऽ-तिरिच्यते यत्पुनस्त्र चित्रम् ॥१२७॥
येन श्री(मुनि)सुन्दरसूरिणा याम्यां दक्षिणस्यां दिशि अयं कालीसरस्वती इदमेतद्विरुदं नामविशेषोऽलम्भि प्राप्तम् । केभ्यः । बुधेभ्यः दाक्षिणात्यपण्डितेभ्यः । पुनर्यदु[दी] च्यामुत्तरस्यां दिशि रवे नोरिव तत्र दक्षिणस्यां दिश्यपि अस्य सूरेस्तेजः प्रतापः । 'एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने, साहस्रैरपि पङ्गुरङ्घ्रिभिरभिव्यक्तीभवन्भानुमान्' इति नैषधे । तेजसां प्रतापानां लङ्घनेऽतिक्रमणे-इति तदृत्तिः । अतिरिच्यते अतिशायी भवति । तदत्र जगति महञ्चित्रमस्माकं जायते । सूर्यस्य दक्षिणस्यां तु तेजोहानिरुत्तरस्यां तु तेजोवृद्धिः । एतद्गुरोस्तु दक्षिणस्यामपि प्रतापः केनापि सोढुं न शक्यत इत्याश्चर्यम् ॥ इति श्रीमुनिसुन्दरसूरिः ॥