________________
२७२
हीरसौभाग्यम् सर्ग ४ श्लो० १२१-१२२ तेनापि सोमतिलकाभिधसरिरात्म
पट्टे न्यवेशि वशिलक्ष्मिलसल्ललामम् । वादेषु येन परवादिकदम्बकस्या
नध्यायता प्रतिपदेव मुखे न्यवासि ॥१२१॥ अपि पुनस्तेन श्रीसोमप्रभसूरिणा आत्मपट्टे खपदे सोमतिलक इत्यभिधा नाम यस्य तादृशः सूरिराचार्यः न्यवेशि स्थापितः । 'न्यवेशि रतत्रितये जिनेन यः' इति नैषधे । किंमूनः । वशिनां जितात्मनां श्रमणानां या लक्ष्मीस्तस्या लसद्दीप्यमान ललाम तिलकम् । ललामशब्दो नकारान्तोऽकारान्तोऽप्यस्ति । येन सोमतिलकसूरिणा वादेषु परे नैयायिकादयः परे जैनाभासाः परपक्षीयास्त एव वादिनो वाद कर्तुमुवतास्तार्किका वा तेषां कदम्बकस्य वृन्दस्य मुखेऽनध्यायता तूष्णीकता मौनमेव न्यवासि वासिता । कव्व। प्रतिपदेव । यथा प्रतिपत्तिथिना छात्राणां मुखेऽनध्यायता अध्ययनाभाबो मुखे वास्यते। 'प्रतिपत्पाठनाशिनी' इत्युक्तेः ॥ इति सोमतिलकसूरिः ।।
सार्थ
સેમપ્રભસૂરિએ, પિતાની પાટે, જિતેંદ્રિય અને સંયમરૂપી લક્ષ્મીના દેદીપ્યમાન તિલક સમાન એવા સામતિલક નામના આચાર્યને સ્થાપન કર્યા. તે સોમતિલકસૂરિએ, વાદ કરવા ઉદ્યત થયેલા પરમત-વાદીઓના સમૂહનાં મુખને મન કરી દીધા હતાં. અર્થાત જેમ પ્રતિપદા (પડવા)ના દિવસે વિદ્યાથીઓના મુખે અનધ્યાય હોય છે તેમ અન્યમનાવલંબીઓના મુખો બંધ કરી દીધાં હતાં. |૧૨૧
संस्थापितो निजपदे गुरुणाऽथ तेन,
श्रीदेवसुन्दरगुरुः सुरसुन्दरश्रीः । अह्नोमुखेन तिमिरेण तमस्विनीव,
येन व्यपास्यत सम मदनेन माया ॥१२॥ अथानन्तर तेन प्रभुणा श्रीसोमतिलकसूरीन्द्रेण निजस्यात्मनः पदे पट्टे श्रीदेवसु. दरगुरुः संस्थापितः। किंभूतः । देवक्त्सुर इव सुन्दरा जनमनोहरा श्रीः शरीरशोभा यस्य । येन श्रीदेवसुन्दरगुरुणा मदेन (दनेन) मुन्मोहसंमेदेन गर्वेण वा । अथ वा जातावे. कवचनम् । अष्टभिर्मदैः सम माया शठता दम्भचारिता वा व्यपास्यत निरस्ता । केनेव। अह्रोमुखेनेव यथा प्रभातेन तिमिरेणान्धकारेण साधं तमस्विनी रात्रिळपास्यते । अहोमुखेनेत्यत्रालुक्समासः, पृथक् पदद्वयी वा ॥ इति श्रीदेवसुन्दरसूरिः ॥
___सार्थ
ત્યાર પછી સામતિલકસરિએ પોતાની પાટે દેવ સમાન સુંદરતાવાળા અર્થાત મનહર લાવણ્યવાળા એવા શ્રી વસુંદર” નામના આચાર્યને સ્થાપન કર્યા. જેમ પ્રભાત અંધકાર સહિત રાત્રિને દૂર કરે છે તેમ દેવસુંદરસૂરિએ આઠમદ સહિત શઠતાને દૂર કરી હતી. ૧૨રા