________________
सर्ग ४ श्लो० ६८-७०] हीरसौभाग्यम् ।
२४७ લોકાર્થ स प्रसिद्धो वृद्धदेवनामासूरिः सामन्तसूरेः पट्टेऽजनि जज्ञे । यत्तदोर्नित्याभिसंबन्धात्स कः । यो वृद्धदेवसूरिः कोरण्टके कोरण्टकनाम्नि नगरे वीरजिनेन्द्रस्य महावीरदेवस्य मूर्ति प्रतिमां प्रत्यतिष्ठत्प्रतिष्ठितवान् । किंभूतां मूर्तिम् । दशोऽर्थाद्भव्यनेत्राण्येव पान्था इतस्ततः भ्रमणशीलत्वात्पथिकाः तेषां वृत्तिर्वर्तनमाजीविका यत्रातिप्रह्लाददातृत्वात् विश्रामस्थानम् । पुनः किंभूताम् । कृतो निर्मितः पुण्यस्य सुकृतस्य पाकः फलप्रदानाभिमुखता यया । उत्प्रेक्ष्यते-सत्रशालां किमु दानशालामिव । कीदृशी । दृग्वत् पर्यटनकारिणः पान्था मार्गचारिणः तेषां वृत्तिराजीविका यस्याम् । पुनः किंभूताम् । कृतः कल्पितः पुण्यः पवित्रः सम्यक् पाकः अन्नादिसंस्कारो यस्याम् ॥ इति वृद्धदेवसूरिः ॥
કલેકાર્થ - શ્રીસામન્તભદ્રસૂરિની પાટે શ્રીવૃદ્ધદેવ નામના આચાર્ય થયા. વૃદ્ધદેવસૂરિએ કરંટક નામના નગરમાં દષ્ટિરૂપી યાત્રિકના વિશ્રામસ્થાનરૂપ અર્થાત અત્યંત આહલાદક અને પુણ્યના પરિપાકરૂપ ફલને આપનારી શ્રી મહાવીર પરમાત્માની મૂર્તિ સ્થાપના કરી હતી. તે જાણે, “દષ્ટિની જેમ સંસારમાં પર્યટન કરી રહેલા જીવોની જેમાં આજીવિકા છે તેમજ કરેલા સુકૃતના પાકરૂપ અન્ન આદિને જેમાં સંસ્કાર છે એવા પ્રકારની દાનશાલા” ન હોય !૬૮
प्रद्योतनाहप्रभुणाप्यमुष्य, पट्ट पर वैभवमावभार ।
त्रैलोक्यलक्ष्मीतिलकायितेन, पितुः स्वपुत्रेण यथान्ववायः ॥६९॥
अपि पुनरमुष्य श्रीवृद्धदेवसूरिशक्रस्य पट्टः प्रद्योतन इत्याह्ना नाम यस्य तादृशेन प्रभुणा सूरीन्द्रेण कृत्वा पर प्रकृष्टं वैभव शोभामाबभार धत्ते स्म । यथा पितुस्तातस्याऽन्ववायो वंशः स्वपुत्रेण निजनन्दनेन स्वस्य पितुरेव पुत्रेणेति । औरसेनेत्यसूचि । परमां श्रिय बिभर्ति । प्रद्योतनसूरिणा पुत्रेण च किंभूतेन । त्रैलोक्यस्य भुवनत्रयस्य लक्ष्म्याः श्रियस्तिलकवद्विशेषक इवाचरितेन । 'तैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितम्' इति चम्पूकथायाम् ॥
महीप पुत्र पिताना यश शालान प्राप्त रे, तमत्रो योनी लक्ष्मीन। तिमસમાન “પ્રદ્યોતન’ નામના આચાર્યવડે શ્રીવૃદ્ધદેવસૂરિની પટ્ટલક્ષ્મીએ શોભાને પ્રાપ્ત કરી. ૬લા
प्रबोधयन् भव्यसरोजराजीः, संशोषयन् दुर्नयकर्दमांश्च । दोषोदय निर्दलयन् महस्वी, प्रद्योतनोऽन्यः किमभूद् भुवोऽयम् ॥७०॥
अयं प्रद्योतनसूरिः भुवः पृथिव्या अन्यो व्योमापेक्षया अपरः प्रद्योतनः सूर्यः अभूत् संजातः । किंभूतः । भव्याः प्राणिन एव सरोजराज्यः कमलमालास्ताः प्रबोधयन् सम्यक्त्वशालिनः जन् । पुनः किंभूतः दुर्नया मिथ्यादृश एव पङ्कास्तान् शोषयन्