________________
हीरसौभाग्यम् [सर्ग १ श्लो० १ - અત્યન્ત આનંદરૂ૫ રજકણથી સુંદર એવા કવિજનેનાં હદયરૂપી કમલવનને વિષે હસીની જેમ વિહરનારાં સરસ્વતી દેવીને મારા હૃદયમાં વિધિપૂર્વક સ્થાપન કરું છું, મારા | સ્વરચિત “હીરસૌભાગ્ય” નામના કાવ્ય ઉપર વિસ્તૃત પ્રકાશ પાથરનારી, તેમજ વિદ્વાન પુરુષને ત્વરિત અર્થબોધ કરાવનારી ટીકા રચું છું
इह हि ग्रन्थारम्मे ग्रन्थकर्ता स्वाभिमतार्थसिद्धये शिष्टाचारपरिपालनाय च सकलविघ्नविघातकारक विशिष्टेष्टदेवतानमस्कारलक्षण मङ्गलमाचरति । तदेव सूत्रमुच्यते
- હવે ગ્રંથના આરંભ કરતાં ગ્રંથકર્તા પોતાના ઈષ્ટ અર્થની સિદ્ધિ માટે, શિખપુરુષાના આચારનું પાલન કરવા માટે અને સકલ વિના નાશ માટે પોતાના ઈષ્ટદેવને નમસ્કાર સ્વરૂપ મંગલ २७.६वेतन भगक्ष१३५ सूत्र (R) :
श्रिय स पार्धाधिपतिः प्रदिश्यात्, सुधाशनाधीशवतंसितांहिः ।
जगनिदिध्यासुरिव त्रिमूर्ति-र्यत्कीर्तिरासीत् त्रिदशस्रवन्ती ॥ १ ॥ स त्रिजगदद्वैतमहिमा श्रिया त्रैलोक्याधिपत्यलक्षणया चतुस्त्रिं[श]दतिशयरूपया लक्ष्म्या वा युक्तः पाच एवाधिपतिः स्वामी जगदीश्वरः । यद्वा-अष्टचत्वारिंशत्सहसयक्षनायकः पार्श्वनामा यक्षस्तस्याधिपतिः प्रभुः । सकलसुरासुराधिपत्येऽपि पार्श्व . नाथशासनाधिष्ठातृतया सर्वदा पार्श्वनाथसमीप एव वर्तितया च । भद्रबाहुस्वामिनापि तथैवोक्तम् । 'उवसग्गहर पासम्' इति तस्योपादानम् । श्रिय लक्ष्मी प्रदिश्यात्प्रदेयादित्याशीःप्रयोगः । किंलक्षणः पार्थाधिपतिः ? सुधाममृतमश्नन्तीति सुधा अमृतमशन येषां वा । सुधा पीयूपमश्यते एभिरिति भावे(?) वा । सुधाशना देवास्तेषामधीशा नायकाः । द्वात्रिंशद्वयन्तरेन्द्राः, विशतिर्भवनेन्द्राः, दश कल्पेन्द्राः, द्वौ सूर्याचन्द्रमसौ इति चतुःषष्टिरिन्द्रास्तैवतंसितौ । 'तत्करोति तदाचष्टे' इतीनक्तप्रत्यये 'वष्टि भागुरिरलोपमवाप्योरुपसर्गयोः' इत्यकारलोपे च वर्तसिताविति सिद्धौ । अवतंसौ कुर्वन्तीति अवतंसयन्ति, अवतंस्येते स्म इत्यवतंसितौ । अथवा सुघाशनाधीशानामवतंसः संजातोऽनयोः । 'इतो जातार्थे' इतीतः प्रत्ययः । तादृशावही चरणौ यस्य । अथ यत्तदोनित्याभिसंबन्धात्स कः । यत्कीतिः यस्य पार्श्वनाथस्य समाज्ञा । 'श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा' इति हेमचन्द्रनाममालायाम् । जगन्ति त्रीणि भुवनानि निदिध्यासुनिध्यातुमिच्छुरिव । 'निध्यानमवलोकनम्' इति हैम्याम् । तथा--'पश्यति विभावयत्यपि विलोकते वीक्षते गवेषयति । निध्यायत्यन्विषति' इति क्रियाकलापे । द्रष्टुकामेव । तिम्रो मूर्तयस्तनवो यस्याः सा त्रिमूर्तिस्त्रिदशस्रवन्ती सुरनदी गङ्गा आसोज्जाता । गगारूपा जातेत्यर्थः । गङ्गा हि त्रिष्वपि लोकेषु प्रवहतीति कविसमयः । तथा[हि]'विबुधानन्दमन्दिर विबुधानां देवानां जलक्रीडादिभिरानन्दमन्दिर प्रमोदसदनम् ।