SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सर्ग १ श्लो० १-२] हीरसौभाग्यम् अर्थात्स्वर्गमार्गप्रवृत्तम् । पुनः-रसान्तरप्रौढं रसायां पृथिव्यामन्तरे स्वभ्रे अर्थात्पाताले प्रवहति स्मेति प्रौढम्' इति चम्पूकथायां तट्टिप्पनकेऽर्थश्च । इति गङ्गा त्रिपथगा । तेन त्रिलोकी स्वैर दिदृक्षोर्यत्कीर्तस्त्रिपथगारूपमूर्ति निर्माण युक्तमेवेति ॥ કલેકાર્થ નમસ્કાર કરતા ઈન્દ્રોના મુકટોથી જેમના ચરણ કમલ સુશોભિત છે એવા શ્રી પાર્શ્વનાથ ભગવાન અથવા શ્રી પાર્શ્વનાથ ભગવાનના શાસનને અધિષ્ઠાયક “પાર્થ” નામનો યક્ષ જે અડતાલીસ હજાર યક્ષોનો નાયક છે. તેના અધિપતિ એવા ભગવાન લક્ષ્મી આપનારા થાઓ-- જે ભગવાનની કીર્તિ ત્રણ સ્વરૂપને ધારણ કરનારી ગગા નદી રૂપે થઈ તે ત્રણે જગતને જોવાની ઈચ્છા માટે જાણે ન હોય ? is ' અર્થાત લૌકિક માન્યતા પ્રમાણે ગંગા સ્વર્ગ મત્યુ અને પાતાલ ત્રણે લેકમાં વહે છે તેમ પાર્શ્વનાથ ભગવાનની કીર્તિ ત્રણે લોકમાં વ્યાપીને રહી છે. ____ सम्यगुपासिता हि वाग्देवता कवितॄणामसाधारणी कवित्वशक्ति विश्राणयति, अतो वाग्वादिनी नमस्कुर्वन्कविराह સમ્યક પ્રકારે ઉપાસના કરાયેલી સરસ્વતી દેવી ખરેખર કવિજનોને અસાધારણ કવિત્વશક્તિ અર્પે છે, તેથી સરસ્વતી દેવીને નમસ્કાર કરતા કવિ કહે છે: प्रीणाति या प्राज्ञदृशश्चकोरी-विभावरीवल्लभमण्डलीव । तमस्तिरस्कारकरी सुरीं तां, भक्तेर्नतेर्गोचरयामि वाचम् ॥ २॥ अहं तां प्रसिद्धां विद्यासंसिद्धये सकलकविकुलैः समाराध्यमानां वाच सुरी सरस्वती देवतां भक्तेः सेवासक्रियावशान्नतेः प्रणामस्य गोचरीकरोमि । गोचरा करोमीति गोचरयामि । 'भिडित्करणे' इति मिः। प्रणमामीत्यर्थः । 'गोचरयन्ति न वाचो यच्चरित चन्द्रचन्द्रिकारुचिरम् । वाचस्पतेर्वचस्वी को वान्यो वर्णस्य जगति (वर्णयेज्जगति) ॥' इति हस्तिमतीचैत्यप्रशस्तौ । कीदृशीं वाचम् ? तमसोऽज्ञानस्य पापस्य वा । तस्याः पापक्षयकारिता शास्त्रेऽपि दृश्यते । यथा-सुअदेवया भगवई नाणावरणीयकम्मसंधाय । तेसिं खवेउ समयंति' । तथा-'भवविरहवर देहि मे देवी ! सारम्' इति संसारदावास्तुतौ । भवविरहस्तु कर्मक्षयजनित एव स्यात् । तथा-'जीसे खित्तं साहू...सा देवी हरउ दुरियाई' । यद्यपरा क्षेत्रदेवी दुरितहन्त्री तर्हि श्रुतदेवी पातकघा. तुका कथं न ? । तिरस्कारो विनाशस्तस्य करीं कारिकां अज्ञानहन्त्रीम् । सा का? या वाग्देवी प्राज्ञानां विदग्धानां दृशो दृष्टीः प्रीणात्यानन्दयति । केव ? विभा०। यथा विभावरी रात्रिस्तस्या वल्लभो भर्ता चन्द्रस्तस्य मण्डली संपूर्णबिम्बम् । मण्डलशब्दस्य त्रिलिगत्वेन मण्डली। यथा-'शुद्धा सुधादीधितिमण्डलीयम्' इति नैषधे । चकोरा गनाः प्रीणयति । विभावरीवल्लभमण्डल्यपि कीग्विधा । तमसो ध्वान्तस्य तिरस्कारकरी नि शिका॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy