SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सर्ग ४ श्लो० ५४-५६ ] हीरसौभाग्यम् २४१ यस्य वज्रप्रभोः पटो वस्त्र वपुराच्छादनवखनः कल्पः व्योमनि आकाशे विमानवत् दिव्ययानमिव दीप्यते स्म शुशुभे । किंभूतः पटः । अतिशयेन पटुः पटीयान् पटुर्महती बहुसंघजनोपवेशनोचितां वृद्धि प्राप्तः । ईप्सितस्थानं प्रापयितुं समर्थो वा । किंभूतस्य वज्रप्रभोः । कृपायाः दुर्भिक्षसीदत्संघजनोपरि दयाया नीरनिधेः समुद्रस्य । अत एव किं कर्तुमिच्छ्रोः । निनीषोर्नेतुमिच्छोः प्रापयितुकामस्य । कम् । संघं साधुसाध्वीश्रावकश्राविकारूपजैनवर्गम् । काम् । सुभिक्षभूमी प्रभूतनिष्पन्नधान्यशतशोऽनुभावसुकालवसुधां बौद्धनगरीम् । केषु । दुर्भिक्षवर्षेषु कालानुभावद्वादशवत्सरी यावन्मेघजलबिन्दुमा - त्रवृ ेरभावेन अन्नपानदद्यैर्लभ्याद्दुःकालसंवत्सरेषु ॥ સ્ટેફા ભારવર્ષના દુકાળમાં પીડાતા એવા સાધુ, સાધ્વી, શ્રાવક, શ્રાવિકા રૂપ ચતુર્વિધ સધર્ન વસ્ત્ર ઉપર બેસાડીને આકાશમાર્ગે સુકાળવાળી ભૂમિમાં લઇ જવાને ઈચ્છતા કાસાગર શ્રીવસ્વામીનું વિશાળ વસ્ત્ર આકાશમાં દેદીપ્યમાન વિમાનની જેમ શાલતું હતું. ૫૪ના सहैव देहेन समग्रसंघ, नयत्यसौ सिद्धिपुरीमिवैनम् । जनैरिति व्योमनि तर्क्यमाणः पटः प्रभोबद्धपुरीमवाप ॥ ५५ ॥ " प्रभोर्वज्रस्वामिनः पटः कल्पः वस्त्र वा बौद्धपुरी सुगतनगरीमवाप गतः प्राप्तः । पटः किं क्रियमाणः । इति अमुना प्रकारेण जनेलों कैव्योमनि आकाशे अर्थाच्छन् वित माणो विचार्यमाणः । इति कथम् । यदसौ वज्रस्वामिपटो देहेन वर्तमानेन उदारिकशरीरेणैव सह एन ं दृश्यमान समग्रमखिल संघ सिद्धिपुरी भुक्तिनगरी नयति प्रापयतीव ॥ સ્કા વસ્વામીનું વસ્ત્ર સુકાળવાળી બૌદ્દનગરીમાં આવ્યુ. આકાશમાર્ગે જતા વસ્ત્રને જોઇને લેાકેાએ કલ્પના કરી કે શ્રીવજીસ્વામી' જાણે ઔદારિકશરીરની સાથે જ અર્થાત્ સદેહે જ સલસ ધને મુક્તિપુરીમાં લઇ જતા ન હેાય ! પપ્પા ध्यातुर्वरं श्रीः श्रुतदेवतेव यस्यादरात्पद्ममदत्त पद्मा । वनात्पितुर्मित्रहुताशनस्या - ग्रहाच यो विंशतिलक्षपुष्पान् ॥५६॥ पर्युषणदिनेषु अष्टाह्निकामहोत्सव कर्तुमिच्छो: जैनद्विष्टतया बौद्धनृपतिवारितमालित (क) मण्डलात् पुष्पमात्रमप्यनाप्नुवतः संघस्य कृते कुसुमानयनार्थ प्रस्थितस्य पद्महदे यातस्य यस्य वज्रस्वामिनः पद्मा लक्ष्मीः आदरात् भक्तिभरतः स्तवनवन्दनपूर्वक पद्म स्वहृदा सहस्रपत्रमादाय भगवत्पूजार्थ प्रयान्ती श्रीस्तत्सहस्रदलकमल पद्मार्थोपगतायास्मै अदन्त दत्सबसी । केव । श्रुतदेवतेव । यथा सरस्वती ध्यातुर्थ्यावकर्तुः पुंसः वरमभिमता. सिद्धिं दत्ते । पुनर्यो वज्रस्वामी पिदुर्धनमिरेमिंत्रस्य हुताशननामदेवस्य बनाटकान
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy