SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् संहर्षशेषात् स्वजिघांसुमेतत्प्रतापमार्तण्डमवेक्ष्य साक्षात् । युयुत्सया हैहयवत्सहस्र, सहस्रभासेव करा धियन्ते ॥ २७ ॥ सर्ग ४ श्लो० २७-२९] २२९ सहस्रभासा सूर्येण सहस्र दशशती करा हस्ताः किरणांश्च धियन्ते धार्यन्ते । उत्प्रेक्ष्यते – युयुत्सया योद्धुमिच्छयेव । किंवत् हैहयवत् । यथा कार्तवीर्यनृपो युयुत्सया सहस्रसंख्यान् करान् पाणीन् धत्ते । 'संग्रामनिर्विष्टसहस्रबाहुर्बभूव योगी किल कार्तवीर्यः' इति रघुवंशे । तथा 'बाहुसहस्त्रार्जुनः पिशुनः' इति सूक्ते च । 'हैहयस्तु कार्तवीर्यः दोःसहस्रभृदर्जुनः' इति हैम्याम् । किं कृत्वा । एतस्य संभूतिविजयस्य प्रताप एव चण्डत्वामार्तण्डो भानुस्तं साक्षात्प्रत्यक्षमवेक्ष्य विलोक्य । किंभूतम् । संहर्षेण स्पर्धया कृत्वा यो रोषः क्रोधस्तस्मात् स्वमात्मानं जिघांसु हन्तु काङ्क्षन्तम् ॥ इति संभूतिविजयः ॥ લેાકા પેાતાની સાથે સ્પર્ધા કરવાથી રાષાયમાન બનીને પેાતાને હણવા માટે ઇચ્છતા એવા સ ંભૂતિવિજયના પ્રતાપરૂપી સૂર્યને સાક્ષાત્ જોઈને યુદ્ધ કરવાને ઇચ્છતા એવા સૂર્યે કાવી રાજાની જેમ उत्तर :- (रिलो) धारण र्या ॥२७॥ स तत्सतीर्थ्योऽजनि भद्रबाहुः, सूरिः समग्रागमपारदृश्वा । दशाश्रुतस्कन्धत उद्दधार, वज्राकराद्वज्रमिवात्र कल्पम् ॥ २८॥ स प्रसिद्धो भद्रबाहुनामा सूरिस्तस्य संभूतिविजयस्य सतीर्थ्य एकगुरुभ्राता । 'सतीर्थ्यास्त्वेकगुरवः' इति हैम्याम् । किंभूतः । समग्राणां सर्वेषामङ्गोपाङ्गपूर्वादीनामागमानां पारं दृष्टवान् इति पारदृश्वा पारगामी चतुर्दशपूर्वरत्वात् । स कः । यो भगवान् अत्र पञ्चमारके कलियुगे वा दशाश्रुतस्कन्धतः प्रत्याख्यानाभिधान नवमपूर्वदशाश्रुतस्कन्धाध्ययनतः कल्प ं कल्पनामसूत्रमुद्दधार उद्धृतवान् । कमिव । वज्रमिव । यथा कश्चिद्भाग्यवान् वज्राणां हीरकाणामाकरात् खनेर्वज्र रत्नमुख्यमुद्धरति ॥ લેાકા તે સંભૂતિવેિજયના ગુરુભ્રાતા સમગ્ર આગમાના પારગામી–ચૌદપૂર્વધર એવા ભદ્રબાહુસ્વામી નામથી પ્રસિદ્ધ હતા, જેમ કલિકાળમાં ભાગ્યવાન્ પુરુષ રત્નના ખાણમાંથી રત્ન પ્રાપ્ત કરે–તેમ ભ– બાહુસ્વામીએ ચૌદપૂર્વ પૈકીના પ્રત્યાખ્યાનપ્રવાદ' નામના પૂર્વમાં રહેલા ‘દશાશ્રુતસ્કંધ’ નામના અધ્યયનમાંથી ‘કલ્પસૂત્ર'ને ઉદ્યુત કર્યું.... રા उपप्लवो मन्त्रमयोपसर्ग - हरस्तवेनावधि येन संघात् । जनुष्मतो जाङ्गुलिकेन जाग्रद्-गरस्य वेगः किल जाङ्गुलीभिः ||२९|| येन भगवता मन्त्रमयेन विषधरस्फुलिङ्गनाममन्त्रत द्विधमन्त्रयन्त्र (वि)धानेन उपसर्गहर इति नाम्ना श्रीपार्श्वनाथस्य स्तवेन स्तोत्रेण कृत्वा संघात् साधुसाध्वीश्राद्धश्राद्धलक्षणात्
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy