________________
२२६
हीरसौभाग्यम् सर्ग ४ श्लो० २०-२२
કલેકાર્થ પ્રશંસનીય શબદમાદિ લેકેત્તર ગુણોવાળા પ્રભવસ્વામીનું ચૌર્યચાતુર્ય–ચેરી કરવાની ચતુરાઈનું શું વર્ણન કરવું ! કે જેમણે દેવોને સ્વાધીન હોવાથી ચોરી કરવા માટે અશકય એવી પણ સ્વર્ગલક્ષ્મીને હરી લીધી અર્થાત મોક્ષગમનનો અભાવ હોવાથી સ્વર્ગવાસી થયા પરના
शय्यंभवोऽभूषयदस्य पट्ट, सिंहासन पित्र्यमिवावनीन्द्रः । कलिन्दिका मौक्तिकमालिकेव, यत्कण्ठपीठे विलुठत्यकुण्ठा ॥२१॥
शांभवनामा भट्टः अस्य प्रभवस्वामिनः पट्टम् अभूषयत् पदमलंकरोति स्म । क इव । अवनीन्द्र इव । यथा नवाभिषिक्तभूपतिः पितुरिदं पित्र्य पितुः संबन्धि सिंहासन केसरिणोपलक्षितमासन सिंहासन भूषयति । यस्य शय्यंभवगणधरस्य कण्ठपीठे मुख एव कलिन्दिकाः सर्वविद्याः चतुर्दशापि पूर्वाणि वा लुठति तिष्ठति । समायातीत्यर्थः । किंभूता कलिन्दिका । अकुण्ठा स्फुरद्रूपा । केव । मौक्तिकमालिकेव । यथा मुक्ताहारलता कस्यापि भाग्यवतः पुंसो गलकन्दले लुठति । किंभूता अकुण्ठा दीप्यमाना । आमलकप्रमाणमुक्ता ॥
કલેકાર્થ રાજ્યાભિષેક કરાયેલે નવો (યુવરાજ) રાજા જેને પિતાના સિંહાસનને શોભાવે તેમ શથંભવ નામના ભક્ટ (બ્રાહ્મણે) પ્રભવસ્વામીની પાટને શોભાવી. જેમ કઈ ભાગ્યવાન પુરુષના કંઠમાં મુક્તાહાર શેબે તેમ શર્થભવસરિના કંઠમાં કૃતિશાલિની એવી સર્વવિદ્યાઓ (ચૌદપૂર્વે) શોભતી હતી. એરલા
यूपादधस्तः प्रतिमां जिनेन्दो-र्वाचा स वाचंयमपुङ्गवस्य । दृक्संज्ञयेव स्वगुरोः किरीटी, नाराचगङ्गां प्रकटीचकार ॥२२॥
यः शय्यंभवनामा भट्टः वाचंयमपुङ्गवस्य प्रभवप्रभोर्वाचा गिरा यूपात्स्वप्रारब्धयशस्तम्भात् अधस्तःअधोभूमिभागात् सकोपप्रश्नोत्तरकालं यज्ञवृत्तबृहद्विजोक्त्या जिनेन्दोःश्रीशान्तिनाथस्य प्रतिमां मूर्ति प्रकटीचकार कर्षति स्म । 'सिज्जभव गणहर जिणपडिमादसणेण पडिबुद्धम्' इति दशवकालिके । अन्यत्तु वृत्त्यादौ । क इव । किरीटीव । यथा अर्जुनः स्वस्य गुरोः पितामहस्य वृद्धस्य वा। 'मातापिता कु(क)लाचार्य एतेषां ज्ञातयस्तथा। वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥' अथ वा गुरुगाङ्गेय इति लोकोक्त्यापि गागेयस्य परशासनेऽपि गुरुगाङ्गेय इति प्रसिद्धत्वाद गुरुरिति पदोपादानम । दृक्संज्ञया दृष्टि चेष्टया वा नाराचस्य बाणस्य मोचनसमय एव प्रादुर्भूतस्वच्छसुरभिस्वादुशीतलविशद
१ ‘शय्यंभव गणधर जिनप्रतिमादर्शनेन प्रतिबुद्धम्' इति संस्कृतम् ।
.