________________
सर्ग ४ श्लो० १४-१६] हीरसौभाग्यम्
२२३ ___अनूचानचन्द्रेण सुधर्मस्वामिना पट्टरमा महावीरदेवपट्टलक्ष्मीस्तथा गणिनां साङ्गप्रवचनाधीतिनां मध्ये दीप्यमानत्वेन परमैश्वर्यभाक्त्वेन इन्दुश्चन्द्रः पट्टश्रिया वर्धमानस्वामिपट्टलक्ष्म्या कृत्वा व्यतिभासते स्म परस्परं शोभते स्म । केनेव का, कया क इव । निशा निशेशेनेव । निशा निशेश इव यथा रात्रिश्चन्द्रमसा शोभते । यथा । निशा राव्या कृत्वा चन्द्रमा व्यतिभासते परस्पर राजते । ‘पद्दन्नोमास्हृनिश्' इति प्रक्रियो। क्तसूत्रेण निशाया निशू आदेशः । किंभूतो गणीन्दुः चन्द्रश्च । शंभोर्जिनस्येश्वरस्य च परिचरणशील सेवाहेवाकिस्वभाव चेतो मनो यस्य सः ॥ इति सुधर्मास्वामी ॥
લોકાર્થ
થી સુધર્માસ્વામીવડે શ્રી મહાવીર પરમાત્માની પલક્ષ્મી અને લક્ષ્મીવડે ગણધરોમાં ચરકસમાન એવા સુધર્માસ્વામી, આ પ્રકારે પરસ્પર શોભતા હતા. જેમ ચન્દ્રવડે રાત્રિ અને રાત્રિવડે ચન્દ્ર શોભે તેમ શ્રીજિનેશ્વરભગવંતમાં દત્તચિત્તવાળા સુધર્માસ્વામીવડે પલક્ષ્મી અને લક્ષ્મીવડે સુધર્માસ્વામી આ પ્રકારે પરસ્પર શોભતા હતા. ૧૪
यशःश्रियाधःकृतकुन्दकम्बु-र्जम्बूकुमारोऽजनि तस्य पट्टे । लघोरपि स्वस्य यतोऽभिभूति, पश्यन् हियाऽदृश्य इव स्मरोऽभूत् ॥१५॥
तस्य सुधर्मस्वामिनः पट्टे जम्बूकुमारोऽजनि जज्ञे । किंभूतः । यशःश्रिया कीर्तेरवदाततालक्ष्म्या अधःकृतास्तिरस्कृता जिताः कुन्दानि कुन्दतरुकुसुमानि कम्बवः शङ्खाश्च येन सः । लघोः शिशोरपि यतो जम्बूकुमारात् स्वस्यात्मनः पराभूतिं तिरस्कार पश्यन् विलोकमानः स्मरः । उत्प्रेक्ष्यते-हिया लज्जयेव अदृश्यः दृशोरगोचरः अनङ्गत्वात् अभूत् ॥
લેકાર્થ શ્રીસુધર્માસ્વામીના પાટે નિર્મલ યશરૂપી લક્ષ્મીથી મચકુંદપુષ્પોનો અને શંખનો તિરસ્કાર કરતારા એવા જંબુસ્વામી થયા. તે બાલકુમાર એવા જંબૂસ્વામીથી પોતાનો પરાભવ તો કામદેવ અદશ્ય બની ગયો ! અર્થાત અંગવિનાનો બની ગયો ! ૧પ
उज्झांचकारेष महेभ्यकन्या, मदेन्दिरा मूर्तिमतीरिवाष्टौ ।
नवाधिका यो नवतिं हिरण्य-कोटीर्नु चेटीरिव दोषराजाम् ॥१६॥
एष जम्बूकुमारः अष्टौ अष्टसंख्याका महेभ्यानां स्वस्वकन्यानां पाणिमोचनपर्वणि जम्बूकुमाराय नवनवकोटीप्रदानलक्षणतो महाव्यवहारिणां कन्याः कुमारिकाः उज्झांचकार त्यजति स्म । उत्प्रेक्ष्यते-मूर्तिमतीः शरीरभाजो मदेन्दिराः कुलजातिरूपश्रुतैश्वर्यतपोलब्धिबलरूपाऽष्टमदलक्ष्मीरिव जहौ । च पुनर्यो जम्बूः नवभिरधिका नवतिं नवनवतिमिता हिरण्यानां सुवर्णानां कोटीरुज्झांचकार तत्याज । उत्प्रेक्ष्यते-दानान्तरायलाभान्तरायवी. र्यान्तरापभोगान्तरायोपभोगान्तरायहास्यरत्यरतिभयजुगुप्साशोककाममिथ्यात्वाज्ञाननिद्रा