SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् [ सर्ग ४ श्लो० ९-१० यो गौतमस्वामी 'स्वलब्ध्या योऽष्टापदमारोहति सोऽवश्यं तद्भवे एव सिद्धिगामीति' देववाच ं निशम्य प्रश्नानन्तर ं भगवतापि तथैव प्रतिपादिते भगवदाज्ञाऽऽदानपूर्वकमष्टापदनामानमुर्वीधर कैलाशशैलमारुरोहाधिरूढवान् चढि (टि)तः । किं कृत्वा । अवलम्ब्य आश्रित्य । काभ्याम् । शयाभ्यां स्वहस्ताभ्याम् । कान् । सूर्यस्य रश्मीन् किरणान् । लूता उर्णनाभः कोलिकस्तस्यास्याद्वदनाद्विनिर्गता जालतन्तवः तान् वा । 'तपःकृशाङ्गास्त' शैलमारोढुं न वय ं क्षमाः । चढिष्यति कथं प्रौढदेहोऽयं गजराजवत् ॥ पश्यत्सु तेषु मार्तण्डकरानालस्थ्य गौतमः । गणभृन्निजलब्ध्यैवाष्टापदोर्ध्वं ययौ ध्रुवम् ॥' इति ऋषिमण्डलवृत्तौ । 'सूर्यस्यांशून् समाश्रित्य तेषामुत्पश्यतामपि । स गरुत्मानिवोड्डीय ययौ मङ्क्षु गिरेः शिरः ॥' इति वन्दारुवृत्तौ । रविकिरणावलम्बनम् । तथा 'भयव' गोयमो जङ्घाचारलद्धीप लूतापुडगंमि निस्साए उड्ढ उप्पयर जाव ते पलायन्ति' इत्यावश्यकद्वाविंशतिसहस्रयाम् । मर्यारिवृत्तावप्ययमेव पाठः । लूतातन्त्ववलम्बनमिति पाठद्वयमपि शास्त्रानुसारि । अथ प्रस्तुते । उत्प्रेक्ष्यते - वज्रस्य वज्ररत्नविनिर्मितानित्यर्थः । अवलम्बार्थमालम्बनकृते रश्मीन् गुणान् रज्जूरिव । किमर्थमारुरोह - नन्तु नमस्कर्तुम् । कान् । जिनचतुर्विंशतितीर्थकृतः । किंभूतान् । ऋषभस्यापत्यमार्षभिर्भरतचक्रवर्ती तेन क्लृप्ता निर्मिता मूर्त्तयः प्रतिमा येषाम् । स्वस्ववर्णप्रमाणोपेतचतुर्विंशतिजिनबिम्बान्नमसितु (स्कर्तु) मित्यर्थः ॥ ક્લાકા २२० પેાતાની લબ્ધિવડે જે કેાઈ અષ્ટાપદ પર્વત ઉપર ચઢે તે અવશ્ય સિદ્ધિગતિને પામે' આવા પ્રકારના મહાવીર પરમાત્માના વચન અનુસાર, ભગવંતની આજ્ઞા પ્રાપ્ત કરીને ગૌતમરવામીએ, વજ્રરત્નથી નિર્માણ કરાયેલા દેરડાના જાણે સમૂહ ન હોય ! એવા સૂર્યના કિરાને બે હાથવડે પકડીને, ભરતચક્રવર્તીએ દરેક તીર્થંકરના વર્ણ, અને પ્રમાણવાળી નિર્માણ કરેલી ચાવીશ તીર્થંકર ભગવાની પ્રતિમાઓને નમસ્કાર કરવા માટે, અષ્ટાપદ (કૈલાસ) પર્વત ઉપર આરેાહણ કર્યું" હતું. મહા कथं लभेताऽस्य तुलां सुरद्रु-येद्यस्य नामापि पिपर्ति कामान् । तपस्विनोऽप्यभ्यवहारयन् यो, द्विधामृतास्वादजुषः पुपोष ॥ १० ॥ अस्य गौतमस्वामिनः तुलां साम्यं सुरद्रुः कल्पवृक्षः कथं केन प्रकारेण लभेत । यत्कारणात् यस्य गौतमस्य नामापि अभिधानमपि कामान् जनानां मनोरथान् पिपर्ति पूरयति ' 'यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षाभ्रमणस्य काले । मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छित मे ॥' इति पूर्वाचार्यकृतस्तुत्युक्तेः । तथ गृहमेधिनोऽपि व्यापारादिकार्य कुर्वाणा 'गौतमस्वामिनी लब्धिरित्युच्चरन्ति च । अथ कल्पवृक्षाभिधानग्रहणेन कोऽप्यर्थो न सरीसति, तस्मात्कल्पतरूपमान न स्यादस्येति अपि, पुनर्यस्तपस्विनस्तापसानभ्यवहारयन् पायसं भोजयन् सन् द्विधा द्वाभ्यां प्रकाराभ्यां कृत्वा अमृतस्य सुधाया मोक्षस्य वा स्वाद भोगं जुषन्ते सेवन्ते तादृशान् पुपोष । चकारेत्यर्थः । प्रथमममृतोपमं पायसमाकण्ड भोजयित्वा ततः सिद्धिवधूविलासरसिकांच कृतवान्, एतदपि महदाश्चर्यमस्ति ॥ इति गौतमस्वामी ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy