________________
२१८
हीरसौभाग्यम् सर्ग ४ श्लो० ५-७ येन महावीरेण बाल्ये शैशवेऽपि जातमात्रावस्थायामपि जन्माभिषेकसमये हेमाद्रिमेरुरकम्पि कम्पितः । णिगन्तोऽय प्रयोगः । केनेव । प्रभअनेनेव । यथा वायुना निकेतकेतुः । 'निकेत परितो भ्रमन्' इति पाण्डवचरित्रे । गृहोपरिध्वजः कम्प्यते । च पुनर्यतो महावीरात् द्वादशाङ्गी गणिपिटक प्रवृत्ता प्रावर्तत । कस्मादिव । गुरोरिव यथा गिरीणां गुरोहिमाचलात् जलकन्या गङ्गा प्रवर्तते स्म ॥ इति महावीरः ॥
साथ પવનવડે જેમ મંદિર ઉપરની ધજા કંપાયમાન થાય, તેમ શ્રી મહાવીરે બાલ્યાવસ્થામાં જન્મતાંની સાથે જ મેરુપર્વતને કંપાયમાન કર્યો હતો. હિમાલય પર્વતમાંથી જેમ ગંગાનદી નિકળી, તેમ શ્રી મહાવીર દેવના મુખમાંથી દ્વાદશાંગી' રૂ૫ ગણિપિટક’ પ્રવર્તમાન થયું
एकादशाऽऽसन् गणधारिधुर्याः, श्रीइन्द्रभूतिप्रमुखा अमुष्य ।
ओर्योपयामे पुनराप्तमूर्ति, रुद्राः स्मरं हन्तुमिवेहमानाः ॥६॥ अमुष्य महावीरदेवस्य श्रिया शोभया लब्धिलक्ष्म्यावा युक्ता इन्द्रभूतिगौतमनामा प्रमुख आद्यो येषां तादृशा एकादशसंख्याकाः इन्द्रभूति-अग्निभूति-वायुभूति-व्यक्त-सुधर्मस्वामिमण्डित-मौर्यपुत्र-अकम्पित-अचलभ्राता मेतार्य-प्रभासाभिधाना गणधारिणां, गण गच्छ बिभ्रतीति गणधारिणस्तेषां मध्ये धुर्या धुरधराः आसन् जज्ञिरे । उत्प्रेक्ष्यते-पुनद्वितीयवार स्मर मदन निहन्तुं जीविताद् व्यपरोपयितुमीहमानाः कान्तः । एकादशसंख्याका रुद्रा इवं प्रकटीभूता इत्यर्थः । किंभूत स्मरम् । पूर्वशरीरापेक्षया दाहानन्तरमपरवारमा र्यायाः पार्वत्या उपयामे पाणिग्रहणसमये आप्ता स्मरोपरि प्रसन्नीभवनविज्ञप्तिकारिसुरा. ननुगृह्य प्रसन्नीभूतभूतपतिवरात् लब्धा मूर्तिः शरीर येन तम् ॥
सार्थ શ્રી મહાવીર પરમાત્માને અનેક લબ્ધિઓથી યુક્ત એવા ઈદ્રભૂતિ-ગૌતમનામના પ્રથમ ગણધર छ मा ते अनिभूति, पायुभूति, व्यास, सुधा, भडित, भौयपुत्र, पित, मयसमाता, મેતાર્ય અને પ્રભાસ એમ અગીઆર ગણધર હતા. તે જાણે, પૂર્વ શરીર બળી ગયા પછી પાર્વતીના પાણિગ્રહણ સમયે પ્રસન્ન થયેલા ઈશ્વર દ્વારા ફરીથી પ્રાપ્ત કરેલા શરીરવાળા કામદેવને બીજીવાર હણવા માટે જાણે અગીઆર સો પ્રગટ થયા ન હોય ?
बभूव मुख्यो वसुभूतिस नु-स्तेषां गणीनामिह गौतमाहः । ... यो वक्रभाव न बभार पृथ्वी-सुतोऽपि नो विष्णुपदावलम्बी ॥७॥
___ इह जगति महावीरशिष्येषु वा तेषामेकादशानां गणीनां गणधारिणां मध्ये वसुभूतिनानो ब्राह्मणस्य सूनुः पुत्रो मुख्यः विविधलब्धिसंपन्नत्वात्प्रकृष्टः अथवा मुखे आदौ भवो मुख्यः प्रथमः सर्वेषां पूर्व दीक्षितत्वात् प्रथमगणधरत्वाद्वा बभूव । किंभूतो वसुभूतिसूनुः । गौतम इत्याह्ना नाम यस्य सः । यो गौतमः पृथ्व्या ब्राह्मण्याः क्षितेश्च सुतोऽपि