________________
०१७
सर्ग ४ श्लो• ३-५] हीरसौभाग्यम्
बभूवतुद्वौँ भुवनप्रदीपो, जिनौ यदूनां पुनरन्ववाये ।
अरिष्टनेमिमुनिसुव्रतश्च, स्फूर्जमुजाविन्द्रियवेश्मनीव ॥३॥
पुनद्वौं जिनौ तीर्थकरौ यदूनां यादवानामन्ववाये वंशे बभूवतुर्जाती। किंभूतो जिनौ । भुवनेषु त्रिषु वा सप्तसु वा चतुर्दशसु वा एकविंशतौ वा । 'भुवनानि निबध्नीयात् त्रीणि सप्त चतुर्दश' इति वाग्भटालंकारे । वृत्तौ एकविंशतिरपि इति वचनात् । तत्प्रमितेषु जगत्सु प्रकाशकारकत्वेन प्रदीपाविव प्रदीपौ । द्वौ कौ । एकः अरिष्टनेमिाविंशतितमस्तीर्थनाथः । च पुनरपरो मुनिसुव्रतनामा विंशतितमस्तीर्थकरः । पदयोजनया कथंचित्पश्चानुपूर्व्या समानीतौ स्तः । काविव । स्फूर्ज जाविव । यथा ऊर्जस्खलौ दोर्दण्डौ इन्द्रियवेश्मनि शरीरे स्याताम् । अत्र हेमाचार्योक्तस्य इन्द्रियायतनमिति परपर्यायस्य परावर्तनम् । 'जुहाव यन्मन्दिरमिन्द्रियाणाम्' इति नैषधोक्तवचनादिदमपि । 'इन्द्रियायतनमगविग्रहौ' इति हैम्याम् ॥ इति जिनाः ॥
साथ ત્રણે ભુવનને પ્રકાશિત કરતા હોવાથી દીપક સમાન વીશા શ્રીમુનિસુવ્રત સ્વામી અને બાવીશમા શ્રીનેમિનાથ ભગવાન યદુવંશ (હરિવંશ)માં ઉત્પન્ન થયા, તે જાણે ઈન્દ્રિયના ઘરમાન શરીરના બળવાન ભુજાદંડ ન હોય ! તેવા હતા. ૩
सिद्धार्थभूकान्तसुतो जिनानाम-पश्चिमोऽजायत पश्चिमोऽपि । शशी व्यभात् पङ्किलपङ्कजास्य-कादम्बवद्यस्य यशःसुधाब्धौ ॥४॥
सिद्धार्थनामा भूकान्तः पृथ्वीपतिः तस्य सुतो नन्दनः महावीरदेवः सः अजायत जज्ञे । किंभूतः । पश्चिमोऽपि सन् जिनानां सामान्यकेवलिनां मध्ये अपश्चिम आद्यः । तत्तीर्थे प्रथम वीरस्यैव केवलज्ञानोत्पन्नत्वेन । 'अपश्चिमो विपश्चिताम्' इति चम्पूकथायाम् । स कः । यस्य यशःसुधाब्धौ कीर्तिरेव सुधाब्धिः क्षीरसमुद्रस्तस्मिन् शशी चन्द्रः । पङ्किल कर्दमाकलित पङ्कज कमलमास्ये मुखे यस्यैवंविधकादम्बवत् राजहंस इव व्यभात् भाति स्म ॥
કલોકાર્થ સિદ્ધાર્થ રાજાના પુત્ર મહાવીરદેવ ચોવીશ તીર્થકરમાં પશ્ચિમ-છેલ્લા હોવા છતાં, સ્વતીર્થમાં પ્રથમ પિતાને જ કેવલજ્ઞાન પ્રગટ થયું હોવાથી સામાન્ય કેવલજ્ઞાનીઓમાં પ્રથમ થયા. જેમના યશરૂપી ક્ષીરસાગરની મધ્યમાં ચન્દ્ર, કાદવવાળું કમળ છે મુખમાં જેને એવા રાજહંસની જેમ શોભતો हतो. ॥४॥
बाल्येऽपि हेमाद्रिरकम्पि येन, प्रभञ्जनेनेव निकेतकेतुः । श्रीद्वादशाङ्गी च यतः प्रवृत्ता, गुरोगिरीणामिव जमुकन्या ॥५॥