________________
२१६
हीरसौभाग्यम् चतुर्थः सर्गः ।
अथ पुराssसन भरते वृषाङ्क - मुखाश्चतुर्विंशतितीर्थनाथाः । बाह्यान्यबाह्यानि तमांसि हन्तुं कृतद्विरूपा इव भानुमन्तः ||१||
[सर्ग ४ श्लो० १-२
अथेति चतुर्थसर्गप्रारम्भे अथवा श्रीविजयदानसूरिसमागमनप्रक्रमसमये तत्पूर्वपट्टावली प्रकटनप्रस्तावे पुरा पूर्व तृतीयारकपर्यन्तचतुर्थारकमध्ये भरते मरतनाम्नि क्षेत्रे वृषाङ्कप्रमुखा ऋषभदेवादिकाः । यथा ऋषभ - अजित-शंभव-अभिनन्दन-सुमति-पद्मप्रभ-सुपार्श्वचन्द्रप्रभ-सुविधि-शीतल-श्रेयांस- वासुपूज्य- विमल-अनन्त-धर्म- शान्ति- कुन्थु - अर- मल्लि-मुनिव्रत-नमि-नेमि- पार्श्व-वर्धमान-नामानश्चतुर्विंशतिसंख्याकास्तीर्थनाथा जिनेन्द्रा आसन्नभू. वन् । उत्प्रेक्ष्यते—-कृते द्वे द्वे मूर्ती रूपे यैरेतावता चतुर्विंशतिरूपा द्वादश भानुमन्तः सूर्या इव द्वादशानां द्विर्वार गणनया चतुर्विंशतिः स्यात् । किं कर्तुम् । बाह्यानि बहि. लोकान्तर्वर्तीनि अबाह्यानि प्राणिनामन्तरङ्गवर्तीनि हृदयस्थानि तमांस्यन्धकाराणि अशानानि पापानि वा हन्तु व्यापादयितुं । भानयो हि नामभिर्ध्वान्तारातयः ॥
શ્લેાકા
ચતુર્થાં સર્વાંના પ્રારંભે, શ્રીવિજયદાનસૂરિજીના સમાગમના પ્રકરણની શરૂઆત પૂર્વે તેની પૂર્વ પટ્ટાવલિના પ્રસ્તાવમાં પૂર્વે આ ભરતક્ષેત્રમાં ત્રીજા આરાના અંતે અને ચેાથા આરાની મધ્યમાં ચાવીશ તીર્થંકરા થયા. તે તીર્થંકરા વાના બાહ્ય અંધકાર અને અભ્યંતર અજ્ઞાનરૂપી (પાપરૂપી) અંધકારનો નાશ કરવા માટે, જાણે બાર સૂર્યાએ પેાતાનાં એ એ રૂપા (ચોવીશરૂ૫) બનાવ્યાં ન ઢાય ! તેમ જણાતું હતું llll
इक्ष्वाकुवंशाम्बुधिशीतभासां द्वाविंशतिस्तीर्थकृतां बभूव ।
यया तमःपङ्कमपास्य पन्थाः, प्राकाशि सिद्धेः शरदेव विश्वे ||२||
तेषां जिनानां मध्ये इत्यध्याहारः । ऋषभदेवस्य शक्रप्राभृतानीतेक्षुयष्टेरास्वादनाशयेन शक्रप्रतिष्ठापितेक्ष्वाकुवंशः स एवाम्बुधिः समुद्रस्तत्र क्षीरभासश्चन्द्रास्तादृशानां तीर्थकृतां जिनानां द्वाविंशतिर्द्वाभ्यामधिका विंशतिर्बभूव जाता । द्वाविंशतिजिनेन्द्रा इक्ष्वा कुकुले समुत्पन्ना इत्यर्थः । यथा जिनद्वाविंशत्या विश्व जगति सिद्धेर्मोक्षस्य पन्था मार्गः प्रकाशि प्रकाशितः प्रकटीकृतः । किं कृत्वा । तमोऽज्ञानं पापं वा तदेव मालिन्यकारित्वा-: त्पङ्क कर्दमम् अपास्य निराकृत्य । कयेव । शरदेव । यथा धनात्ययेन पङ्क विशोष्य पन्थाः प्रकटः क्रियते ॥
શ્લેાકા
એ ચેાવીશ તીથંકરામાં બાવીશ તીક ઇંદ્રવર્ડ સ્થાપિત વિાવ શરૂપી સમુદ્રમાં ચંદ્ર સમાન ઉત્પન્ન થયા. જેમ શરદઋતુ પક (કાદવ)ને શેોષીને માર્ગને સ્પષ્ટ કરે છે, તેમ બાવીશ તીર્થંકરીએ જગતમાં પાપરૂપ ૫'ક દૂર કરીને મેાક્ષમાર્ગને પ્રકાશિત કર્યો. ારા