________________
२०६
हीरसौभाग्यम् [सर्ग ३ श्लो० ११७-११९
શ્લેકાર્થ વૃષભ કંધના બહાને કકુદનું ભેગું કરીને, હીરકુમાર પાસેથી ગતિ શિખી ! વળી હાથીઓના સમૂહે વિંધ્યાચલના વનમાં, હીરકુમારની ગતિનું અનુકરણ કરવાની અભિલાષાથી અભ્યાસ કર્યો. અર્થાત હીરકુમારની ગતિ (ચાલ) શ્રેષ્ઠ ગજગામિની હતી. 1ળા
लिप्ता द्रवैरिव विलीनहिरण्यराशेः,
संकल्पितेव नवगन्धकलीदलैर्वा । कि रोचनाभिरथवा रचिता स्मिताब्ज
गर्भरिवाथ घटितास्य तनुश्वकाशे ॥११८॥ अस्य कुमारस्य तनुः शरीर चकाशे दिदीपे । उत्प्रेक्ष्यते विलीनस्य खादिराङ्गा. राग्निगालितस्य हिरण्यस्य राशेः कनकनिकरस्य द्रवै रसैः लिप्यते स्मेति लिप्ता दिग्धेव । वा अथवा नवैः सद्यस्कैनवीनैर्गन्धकलीदलैश्चम्पककलिकापत्रैः । 'न षट्पदो गन्धकलीमजिघ्रत्' इति सूक्ते । संकल्पितेव विरचितेव । अथवा पक्षान्तरे रोचनाभिर्गोरोचनानामगोपित्तविशेषद्रव्यैः किमुत्प्रेक्ष्यते-रचिता निर्मितेव । अथ पुनः मिताब्जानां विकचकमलानां गर्भेरन्तर्वतिसारदलैर्घटिता कल्पितेव ॥ इति हीरकुमारसर्वाङ्गवर्णनम् ॥
પ્લેકાર્થ હીરકુમારનું શરીર ખેરના અંગારામાં પ્રવાહી કરાયેલા સુવર્ણથી જાણે વિલેપન કરાયું હાય ! અથવા તાત્કાલિક ઉત્પન્ન થયેલા ચંપકલતાના પર્ણોથી રચના કરાઈ હોય ! અથવા ગોસચંદનવડે નિર્માણ કરાયું હોય અથવા વિકસ્વર કમલેની મધ્યમાં રહેલા શ્રેષ્ઠ અંશેવડે નિર્માણ કરાયું હોય ! આ રીતે હીરકુમારના શરીરની શોભા સર્વાંગસુંદર હતી. ૧૧૮
तस्मिन् पदं प्रविदधे गुणधोरणीभिः,
सर्वाभिरर्णव इवार्णववर्णिनीभिः । आलोक्यते स्म च कदाचन नैष दोपै
दोपातनैरिव तमोभिर भीशुमाली ॥११९॥ तस्मिन् हीरकुमारे सर्वाभिः समस्ताभिरौदार्यधैर्यादिगुणधोरणीभिः पदं स्थान प्रविदधे कृतम् । कस्मिन्निव । अर्णव इव । यथा सर्वाभिरर्णववर्णिनीभिः समुद्रपत्नीभिनदीभिरर्णवे जलनिधौ पद स्थान प्रविधीयते । च पुनरेष कुमारः दोषैरपगुणैः कदाचन कस्मिन्नपि समये न आलोक्यते स्म न दृष्टः । क इव । अभीशुमालीव यथा भास्वान् दोपातनै रात्रिजातैस्तमोभिरन्धकारै लोक्यते न प्रेक्ष्यते ॥