________________
२०४
हीरसौभाग्यम् सर्ग ३ श्लो० ११४-११५ यत्पादपङ्कजयुगागुलिभिः स्वकीय
लक्ष्म्या पराभवपदं गमिताः प्रवालाः । दुःखादिव द्रुमशिखाशिखरान्तरेषु,
तित्यक्षवस्तनुलतां निजमुद्वबन्धुः ॥११४॥ प्रवालाः पल्लवा द्रुमाणां वृक्षाणां शिखास्तासां शिखराणि अग्राणि तेषामन्तरेषु मध्येषु । उत्प्रेक्ष्यते-निजमात्मानम् । 'श्रुत्वा निज भीमजया निरस्तम्' इति नैषधे । निजशब्देनात्मा उत् ऊर्ध्व बबन्धुः बध्नन्ति स्म । स्व पाशपतितं कुर्वते स्मेत्यर्थः । किं कर्तुमिच्छवः । तित्यक्षवः त्यक्तुमिच्छवो विहातुकामाः । कस्मात् । दुःखात् । काम् । तनुलतां स्वशरीरयष्टिम् । किंभूताः प्रवालाः पराभवपदमभिभूतिस्थान गमिताः प्रापिताः। कया। स्वकीयया आत्मीयया लक्ष्म्या श्रिया शोभया वा काभिः । यत्पादपङ्कजयुगाइगुलिभिः यस्य कुमारस्य पादौ चरणावेव पङ्कजे पझे तयोर्युगल द्वन्द्वं तस्याङ्गुलीभिः पदशाखाभिः ॥
પાવોએ વૃક્ષની શિખાના અગ્રભાગની મધ્યમાં પોતાના શરીરરૂપી લતાને ત્યાગ કરવાની ઈચ્છાથી બાંધી હતી, શાથી? હીરકુમારના ચરણકમલની આંગળીઓ વડે પિતાની શોભાને પરાભવ થવાથી, દુખથી કંટાળીને જાણે સ્વયં આત્મઘાત કરવાની ઈચ્છાથી બાંધી ન હોય ? ૧૧૪
कामद्विपेऽङ्कुश इवोद्भविताऽय नेव,
कामातशः किमिति सूचयति स्म वेधाः । रत्न यदेष भुवि मूरिभरेषु भावी,
रत्नश्रियं किमु पुननिदधे स तेषु ॥११५॥ वेधा ब्रह्मा पतस्य कुमारस्य कामाकुशैरिति नामभिनखैः । 'कामाकुशो महा. राजकरजो नखरो नखः' इति हैम्याम् । उत्प्रेक्ष्यते इति सूचयति स्म । किम् । लोकपुरः कथयति स्मेव । इति किम् । यदयं हीरकुमारः कामद्विपे स्मरहस्तिनि विषये अकुशः सृणिरिवोद्भविता प्रादुर्भविष्यति । सर्वथापि दुर्दम मदन यौवनेऽप्येष दमिष्यतीत्यर्थः । पुनः स ब्रह्मा तेषु कामाङ्कुशेषु-इति हेतोः । अत्र इतिशब्दः पूर्वपदादेव ग्राह्यः । एक काव्यत्वात् । रत्नश्रिय माणिक्यलक्ष्मी निदधे स्थापितवान् । इति किम् । यदेष कुमारो भुवि पृथिव्यां सूरिभरेष्वाचार्यव्रजेषु रत्न माणिक्यमिव भावी भविष्यति । 'नगीनो' इति प्रसिद्धः॥. .
બ્લેકાર્થ બ્રહ્મા, કુમારના નવડે લેકની આગળ આ પ્રમાણે સૂચિત કરતા હતા. “આ હીરકુમાર યૌવનવયમાં જ ઈમ એવા કામદેવરૂપી હાથીને દમન કરવા માટે અંકુશ સમાન બનશે ! અથવા તે