________________
२०३
सर्ग ३ श्लो. ११२-११३] हीरसौभाग्यम्
स्पर्धोदयान्निजविवृद्धिकृतौ यदूरू, __जो पुनः सरसिजन्मभुवा विभाव्य । तद्वन्द्वविग्रहनिषेधविधिप्रभूष्णु
सीमाकर विरचितं किमु जानुयुग्मम् ॥११२।। स्पर्धायाः परस्पर संह(घ)र्षस्य उदयादाविर्भावान्निजयोरात्मात्मनोविशेषेण वृद्धिमुः पचयं कुरुतः सृजत इति निजविवृद्धिकृतौ यस्य कुमारस्य ऊरू पुनरर्थात्कुमारजमधे विभाव्य दृष्ट्वा सरसिजभुवा विधिना । उत्प्रेक्ष्यते-तयोर्द्वन्द्वयोर्युगलयोर्विग्रहस्य मिथ: कलहस्य निषेधविधौ निवारणप्रकारे प्रभूष्णुः समर्थम् । अत एव सीमाया अवधेर्विभागस्य कर विधायक जानुयुग्म बिरचित कृतम् ।।
શ્લેકાર્થ પરસ્પર પોતપોતાની વૃદ્ધિને માટે સંઘર્ષ કરતા એવા હીરકુમારના બે સાથળને જોઈને બ્રહ્માએ તે બન્નેના કલહની શાંતિ માટે સમર્થ મર્યાદાને કરવાવાળું અંધાયુગ્મ બનાવ્યું. ૧૧૨
शुश्रूषयासनतयानिशमाप्रसादा
लब्ध्वा प्रसन्नमनसो वरमात्मयोनेः । विश्वाङ्ककारविजयप्रभविष्णुलक्ष्मि,
स्मेराम्बुजन्म किमु यत्पदतामवाप ॥११३।।
स्मेराम्बुजन्म विकचकमलम् । उत्प्रेक्ष्यते यत्पदतां कुमारस्य चरणत्वम् । पादावतारमित्यर्थः । किमवाप लभते स्मेव । किंभूताम् । विश्वषु जगत्सु ये अङ्ककारा जैत्रप्रतिमल्लाः स्वश्रीपरिस्पर्धिनः । 'संकीर्णशंकरशशाङ्ककलाङ्ककारैः' इति नैषधे । तेषां विजये प्रभविष्णुः समर्था लक्ष्मीर्यस्यास्ताम् (यस्य तद् )। किं कृत्वा । वर स्वाभिलषितवाच लब्ध्वा प्राप्य । कस्मात् । आत्मयोनेविधातुः। किंभूतात् । प्रसन्न प्रसादोपेत हृष्टं मनो हृदयं यस्य। कया । आप्रसादात् प्रसाद मर्यादीकृत्य अनिश निरन्तरमासनतया विष्टरभावेन शुश्रूषया। 'सेवा भक्तिः परिचर्या प्रसादना । शुश्रूषाराधनोपास्तिः वरिवस्यापरिष्टयः ॥ इति हैम्याम् । आसनीभूय प्रसादसमय यावनित्य सेवां विधाय ॥
શ્લોકાર્થ વિકસ્વર કમલે હીરકુમારના ચરણ(પગ)પણાને પ્રાપ્ત કર્યું. કૃપા પ્રાપ્ત કરવાના હેતુથી નિરંતર આસનરૂપે બનીને સેવા કરવાથી અતિ પ્રસન્ન થયેલા બ્રહ્મા પાસેથી પોતાને અભિલષિત વરદાન પ્રાપ્ત કરીને વિકસવર કમળ ત્રણે જગતના પ્રતિસ્પર્ધિઓને જીતવામાં સમર્થ ભાવાળા હીરકુમારના ચરણપણાને પ્રાપ્ત કર્યું. અર્થાત હીરકુમારના ચરણ–પગ વિકસ્વર કમળ જેવા હતા. ૧૧ટા