________________
१९८
हीरसौभाग्यम् सर्ग ३. श्लो० १०३-१०५ विधाता ब्रह्मा अस्य कुमारस्य कण्ठे गलकन्दले । उत्प्रेक्ष्यते इति हेतो रेखात्रिक निर्मितवान् किमु कृतवानिव । इति किम् । यत् निःशेष समग्र भूवलय मेदिनीमण्डलम् , तथा कुण्डलिनां नागानां वेश्म गृह पातालम् , तथा नाकिनां देवानां लोको विश्व स्वर्गस्तेषां त्रिके त्रयेऽपि प्रसमरैः प्रतिस्थान विस्तरणशीलैर्यशसां कीर्तिनां विलासर्वैचित्रीभिरस्य हीरकुमारस्य महत्सु उत्तमजनेषु रेखा भविष्यति । एतस्मात्परः कोऽप्येतादृग्गुणगणकलितत्रिभुवनेऽपि नास्तीति प्रसिद्धि विनी ॥
પ્લેકાર્થ વિધાતાએ કુમારના કંઠ ઉપર ત્રણ રેખાનું નિર્માણ કર્યું તે શા માટે ! ભૂમંડલ, પાતાલ લેક અને સ્વર્ગલેક, એમ ત્રણે લોકમાં ફેલાયેલા યશના વિલાસથી આ કુમાર ઉત્તમપુરુષોમાં એક રેખા સમાન થશે ! અર્થાત “ત્રણે ભુવનના ગુણવાન પુરુષોમાં કુમાર સમાન બીજું કોઈપણ નથી આ પ્રકારની પ્રસિદ્ધિને કરવા માટે જાણે રેખા દોરી ન હોય ! ૧૦૩
भावी यदेष वृषवज्जिनधर्मधुर्वः,
स्कन्धोऽप्यभूत्किमिति तत्ककुदोपमेयः । अर्भः पुरा भवति येन युगप्रधानो,
जज्ञेऽस्य बाहुरपि तेन युगप्रधानः ॥१०४॥ यत्कारणादेष कुमारः वृषववृषभ इव जिनस्याहतो धर्मे सुकृतकर्मणि धुर्यो धौरेयो धुरंधुरो भावी भविष्यति । इति हेतोः अस्य कुमारस्य स्कन्धोऽप्यसोऽपि । उत्प्रेक्ष्यतेतस्य वृषभस्य ककुदेनांसकूटेन उपमेय उपमातु योग्यः । किमभूद्वभूव । च पुनर्येन कारणेन अर्भो हीरकुमारो युगे कलिकाले विशिष्टातिशयमाहात्म्याभ्युदयात् प्रधानः प्रकृष्टः पुरा भवति अग्रे भविष्यति । पुरायोगे भविष्यदर्थे वर्तमाना 'यावत्पुरानिपातयोोगे लङ' आभ्यां निपाताभ्यां योगे भविष्यत्काले वर्तमाना स्यादिति प्रक्रियाकौमुद्याम् । पुरेदमूर्ध्व भवतीति वेधसा' इति नैषधेऽपि । तेन हेतुना । उत्प्रेक्ष्यते-अस्या र्भकस्य बाहुर्भुजोऽपि युगवळूसरवत्प्रधानो व्यायतः आजानुबाहुत्वात् जज्ञे संजातः ॥
બ્લેકાર્થ હીરકુમાર વૃષભની જેમ આહત ધર્મના ધેરી-ધુરંધર બનશે, આ કારણથી કુમારના ખભા' પણ વૃષભના કંધની ઉપમાને યોગ્ય હતા. “કલિયુગમાં હીરકુમાર સર્વોત્કૃષ્ટ મહિમાવંતા હેવાથી પ્રધાન થશે અર્થાત યુગપ્રધાન બનશે. આ કારણથી જાણે કુમારના બાહુ પણ ધુંસરાની જેમ समा-प्रधान ता. अर्थात् 'भागनुमाई' ता. ॥१०४।।
उद्दामदुर्गतिपुरेऽर्गलतां गमी य
तद्दोरितीव लभतेऽर्गलयोपमानम् ।