________________
हीरसौभाग्यम् सर्ग ३ श्लो० १००-१.१ भावी शिशु वि यदेष सुवृत्तशाली,
भेजे तदस्य चिबुकोऽपि सुवृत्तशाली ॥१००॥ अदसीयः कुमारसंबन्धी अधरः ओष्ठः असिकम् अधराधःप्रदेशविशेष धत्ते धारयति । उत्प्रेक्ष्ते-रक्ताङ्कपल्लवमुखान् विद्मकिसलयादिकान् द्विषतो वैरिणो जिगीपुर्जेतुमिच्छुः किम् । असिक असिरेव असिकः । स्वार्थे । तं खड्ग बिभर्ति । अन्योऽपि वीरो रिपून निर्जेतु करवाल कलयति । यत्कारणाद् भुवि पृथिव्यामेष शिशुर्वालकः सुवृत्तेन शोभनाचारेण शालते शोभते इत्येवंशीलो भावी । तत्कारणादस्य कुमारस्य चिबुकोऽपि असिकाधःप्रदेशोऽपि सु शोभन वृत्तमाचारो यत्र । तादृशं भावमाशय सदाचारतां वा । वास्तवार्थे तु शोभनवर्तुलतां भेजे सिषेवे । 'तत्प्रान्तौ सक्किणी असिक त्वधः । असि. काधस्तु चिबुकम्' इति हैम्याम् ॥
હીરકુમારને અધર નજીકમાં અસિક-હોઠના નીચેના ભાગને ધારણ કરતો હતો. શા માટે ? પલ્લવ-કિશલય, પરવાળા આદિ પિતાના શત્રુઓને જીતવાની ઇચ્છાથી જાણે સમીપમાં અસિ-તલવારને રાખી ન હોય ! વળી, હીરકુમારની હડપચી ગોળાકારની શોભાને ધારણ કરતી હતી. તે જાણે “આ હીરકુમાર ભવિષ્યમાં સદાચારને સેવનારા બનશે ! આ કારણથી ગળાકારે રહેલી ન હોય ! ('વૃત્તને અર્થ વતું સાકાર થાય તેવી રીતે ‘સદાચાર” પણ થાય). ll૧૦૦
द्वात्रिंशताजनि रदैरपि लक्षणानि,
द्वात्रिंशदाकलयतः शिशुवासवस्य । पीयूषवर्षिसितरोचिरसूययान्त
र्वाग्भिः सुधामिव ववर्ष मुख तदीयम् ॥१०१।। करचरणयोश्छत्रचामरादीनि द्वात्रिंशत्संख्याकानि लक्षणानि आकलयतः बिभ्रतः । लक्षणानि यथा-'छत्र तामरस धनू रथवरो दम्भोलिकूर्माकुशा. वापी स्वस्तिकतोरणानि च सरः पञ्चाननः पादपः । चक्र शङ्खगजो समुद्रकलशौ प्रासादमध्या यवा, यूपस्तूपकमण्डलून्यवनिभृत्सच्चामरो दर्पणः ॥ उक्षा पताका कमलाभिषेक , सुदामकेकी घनपुण्यभाजाम्' इति षट्पदी । अथवा 'इह भवति सप्तरक्तः षडुम्नतः पञ्चसूक्ष्मदीर्घश्च । त्रिविपुललघुगम्भीरो द्वात्रिंशल्लक्षणः स पुमान् ॥' इति शिशुषु महधिकत्वेन वासवस्य शक्रतल्यस्य दन्तर्वदनदशनैरपि द्वात्रिंशता द्वात्रिंशत्संख्याकैरजनि संजातम् । उत्प्रेक्ष्यतेद्वात्रिंशत्त्वे स्पर्धयेव इति गर्भितोत्प्रेक्षा । पुनस्तदीय कुमारसंबन्धि वदन वाग्भिर्वाणीभिः कृत्वा सुधां पीयूष ववर्ष वर्षति स्म । उत्प्रेक्ष्यते-पीयूषममृत वर्षतीत्येवंशीलस्तस्य सितरोचिषश्चन्द्रस्य अन्तश्चित्तमध्ये असूयया ईय॑येव सुधामवर्षत् ॥