________________
सर्ग ३ श्लो. ९८-१००] हीरसौभाग्यम्
यस्याननान्तरनिकेतनवाक्त्रिदश्या,
वापीव खेलनकृते रसना बभासे ॥१८॥ यस्य कुमारस्य रसना जिह्वा बभासे रेजे । उत्प्रेक्ष्यते-आननमर्थात्कुमारवदन तस्यान्तर मध्य तत्र निकेतन सदनौं यस्यास्तादृश्याः वाक्त्रिदश्या भारत्याः खेलनकृते जलक्रीडार्थ वापी दीर्घिकेव । किंभूता वापी । अमृतैः पीयूषैः सलिलैश्च पूर्णा भृतमध्या । पुनः किंभूता वापी । अरुणरत्नैः पद्मरागमणिभिः मनोज्ञ रमणीय बद्ध रचित मध्य यस्याः । मध्यम(पद)लोपी समासः । पुनः किंभूता । पक्तया श्रेण्या भवद्भिर्वितिष्ठमानद्विजैर्दन्तैविहंगमैश्च । अर्थात् विशदतया राजहंसपक्षिभिः विराजी शोभनशीलः सवेशदेशः समीपविभागो यस्याः । वापी अपि जलाकीर्णा रत्नबद्धमध्या विहंगमकलिता च स्यात् ॥
अर्थ હીરકુમારની જીભ શોભતી હતી તે જીભ, કુમારના મુખરૂપી નિવાસસ્થાનવાળી સરસ્વતી દેવીને જલક્રીડા કરવા માટેની જાણે વાવડી ન હોય ? જલરૂપી અમૃતવડે પરિપૂર્ણ પદ્યરાગમણિઓથી સુશોભિત મધ્યભાગવાળી અને સમીપમાં નિર્મલ તથા વેત શ્રેણિબદ્ધ દાંતરૂપ રાજહંસવાળી કીડા વાવડી જાણે ન હોય ! (કુમારની જીભને સરસ્વતીની કીડાવાવની ઉપમા આપી છે) ૯૮
पूज्येषु रङ्गितमना यदसौ कुमार
स्तस्य स्म रज्यत इतीव रसज्ञयापि । शुद्धाशयस्य दशनैरिव धार्यते स्म,
श्रीमत्कुमारवृषभस्य विशुद्धिमत्ता ॥१९॥ तस्य कुमारस्य रसाया जिह्वया । उत्प्रेक्ष्यते-इति रज्यते स्म रक्तीभूतमिव । इति किम् । यत्कारणादसौ कुमारः पूज्येषु गुर्वादिषु अभ्यर्चनीयेषु विषये रङ्गित राग युक्त जात मनश्चित्त यस्य तादृग्वर्तते । 'रङ्गः स्यान्नृत्ययुद्भुवो रागेऽपि' इत्यनेकार्थः । पुनः शुद्धाशयस्य शुद्धो निर्मलो निष्पाप आशयश्चित्त मध्यं च यस्य । श्रीमतो लक्ष्म्या शोभया वा शालिनः कुमारेषु बलवत्तया धर्मकर्मादिषु धुरीणतया वा वृषभ इव वृषभः प्रशस्यो वा तस्य दशनैर्दन्तैरपि विशुद्धिमत्ता अत्यौज्ज्वल्य धार्यते स्म धृता ॥
साथ પૂજ્ય પુરુષમાં રક્તચિત્તવાળા હોવાથી કુમારની જીભ પણ રક્ત-લાલ બની ગઈ ! વળી, ધર્મકાર્યમાં અગ્રણી હેવાથી કુમારમાં વૃષભ સમાન હીરકુમાર નિર્મલ ચિત્તવાળા હેવાથી તેઓના દાંત પણ ઉજવલતાને ધારણ કરનારા બન્યા. ૯
रक्ताङ्कपल्लवमुखान्दूिषतो जिगीषु
धत्तेऽसिक किमधरः सविधेऽदसीयः ।