________________
सर्ग ३ श्लो० ९०-९२] हीरसौभाग्यम्
नीलोत्पले उदयतः कुमुदोर्यदाक्ष्णो
लक्ष्मी तदा तरलतारिकयोः श्रयेते ॥९०॥ यद्यस्मात्कारणादसौ अयं वर्ण्यमानः शिशुषु कुमारेषु दृश्यमानो नयनानामाहादकत्वात् शशी चन्द्र इव शिशुशशी श्रुतौ शास्त्रे सक्तः प्रत आसक्तोऽस्ति । उत्प्रेक्ष्यते-इति हेतोस्तचक्षुषी कुमारलोचने श्रुतियुग श्रवणयामल परिषस्वजाते आलिङ्गतः स्म । च पुनर्यदा यदि नीलोत्पले कुवलये कुमुदोः कैरवयोर्मध्ये उदयेते उद्गम लमेते तदा तरले चपले तारिके कनीनिके ययोस्तादृशयोस्तदक्ष्णोः कुमारलोचनयोर्लक्ष्मी श्रियं शोभा श्रयेते भजेते । कुमुदे कुमारलोचनतुलामाकलयतः ॥
શ્લેકાર્થ કુમારમાં ચંદ્ર સમાન એવા આ હીરકુમારના બે કાન હંમેશાં શાસ્ત્રોમાં આસક્ત હતા. તેથી નેત્રો કર્ણયુગલને આલિંગન આપતા હતા ! અર્થાત નેત્રો કાન સુધી લાંબા હતા. વળી કુમુદની મધ્યમાં નીલકમલને ઉદ્દભવ જેમ શોભાને પામે છે, તેમ કુમારના નેત્રોમાં રહેલી શ્યામ અને ચપળ કીકીઓ શોભાને આશ્રય કરતી હતી. ૯.
दृग्दोषखण्डनकृते भ्रमरं तदीये,
चिह्न मषेखि मुखे कृतवान्विरश्चिः । विश्वप्रदीपसदृशो यदसौ तदीया,
नासापि किं भजति दीपशिखोपमानम् ॥११॥ विरञ्चिब्रह्मा तदीये हीरकुमारसंबन्धिनि मुखे वदने भ्रमर कुरल भ्रमरालका अन्यो वा आकारविशेषस्त कृतवान् चकार । उत्प्रेक्ष्यते-हग्दोषखण्डनकृते शाकिन्या. दीनामितरेषां वा दृष्टिदोषनिवारणार्थ मषेमलिनाम्बुनः । 'मलिनाम्बु मषी मसी' इति हैम्याम् । चिह्न लाञ्छनमिव कृतवानिति । इदानीमपि बालकानां दृग्दोषच्छिदे मुले कजलचन्द्र मातरः कुर्वन्तीति प्रसिद्धमेतत् । पुनर्यत्कारणादसौ विश्वे जगति प्रदीपस्य पदार्थसार्थप्रकाशकत्वेन गृहमणेः सदृशस्तुल्योऽस्ति यत्तदोः संबन्धात्तेन हेतुना । उत्प्रेक्ष्यते. तदीया तस्य कुमारस्य इयं तदीया नासा गन्धवापि दीपशिखोपमान कजलध्वजकलिकातुलनां भजति कलयति ॥
શ્લેકાર્થ બ્રહ્માએ હીરકુમારના મુખ ઉપર ભમરના આકાર ભકુટી બનાવી ! તે જાણે શાકિની વગેરેને દૃષ્ટિ દેષના નિવારણ માટે મથીનું ચિહ્ન કર્યું ન હોય ! વળી, પ્રકાશક હેવાથી જગતમાં દીપક સમાન એવા હીરકુમારની નાસિકા દીપશિખા (દીવેટ)ની જેમ શોભતી હતી ૯૫
चापल्यकेलिकलिने असिताशये य-.
न्नेत्रे मिथः सदृशवैभवभाजिनी तत् ।