SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सर्ग ३ श्लो० ८७-८८] हीरसौभाग्यम् १८९ भालस्थलप्रसृमरांशुपयःप्रवाहो पान्तप्ररूढलतिकेव विभाति यद्भः । शङ्खोऽप्यभूद्वदनवारिजपार्थिवस्य, चन्द्रादिवैरिविजये किमु वादनाईः ॥८७॥ यद्भूर्यस्य कुमारस्य धूनयनयोरुपरि रोमपद्धति ति स्म रराज । उत्प्रेक्ष्यतेभालस्थलस्य ललाटपट्टस्य प्रसमरा विस्तरणशीला ये अंशवः किरणास्त एव पयःप्रवाहः सलिलानामोघस्तस्योपान्ते तटप्रदेशे प्ररूढा प्रोद्गता लतिका । अथवा फलिनी वल्ली स्व. भावलतिका वा । अपि पुनर्यद्वक्त्रे शङ्खः भालश्रवणयोरन्तराले कश्चित् प्रदेशविशेषः अभूजज्ञे । 'शङ्खः कम्बो निधिमेदे स्यानख्यामलिकास्थनि' इत्यनेकार्थः। ललाटप्रान्तवर्तिनि अस्थनीति तदवचूर्णिः । 'शङ्खो भालस्र(श्र)वोऽन्तरे' इति हैम्याम् । उत्प्रेक्ष्यते-बदनमर्थात् कुमारमुखमेव वारिजानां कमलानां राजा पार्थिवस्तस्य । चन्द्रादीनां विधुदर्पः णप्रमुखाणां वैरिणां शत्रूणां विजये जयप्राप्तौ पराभवनावसानसमये वा वादनस्य पूरणस्य अ) योग्यः शङ्खः कम्बुः किमु । विजयिराजानो हि रिपूनिर्जित्य स्वविजयसूचक शङ्ख वादयन्तीति प्राक्तननृपरीतिः। यथा-स्वाविनयकरणप्रकुपितमतङ्गतापसप्रदत्तमतगजीभवः नशापापनयनप्रादुर्भूतस्वाभाविकस्वरूपप्रसन्नीभवद्गान्धर्वदेवविश्राणितप्रयुक्तसंहारविभक्तमन्त्रप्रस्वापनशस्त्रानुभावपराभूतसमस्तप्रतिपक्षक्षितिपतिपताकिनीप्रारब्धदुर्धरमहायोधनपयोनिधिमध्यसमुद्भूतविजयश्रीस्वीकरणावसरे अजकुमारः 'ततः प्रियोपात्तरसोऽधरोष्टे निवेश्य दध्मौ जलज कुमार.' इत्येतत्सर्वविस्तारो रघुवंशे ॥ બ્લેકાર્થ હીરકુમારના લલાટ ઉપર અને નેત્રો ઉપર રહેલી ભ્રમર શોભતી હતી. તે જાણે લલાટપદના વિસ્તારને પામેલા કિરણોરૂપી પાણીના પ્રવાહને કીનારે ઉગેલી કેઈ લતાવિશેષ ન હોય ! વળી મુખ ઉપર રહેલે શંખ (કપાળ અને કાન વચ્ચેનો પ્રદેશવિશેષ અથવા ગુજરાતીમાં જે લમણ તરીકે ઓળખાય છે.) શોભતો હતો! તે જાણે હીરકુમારના મુખારવિંદરૂપી રાજાના, ચન્દ્ર દર્પણ આદિ શત્રુઓ પરના વિજયની પ્રાપ્તિમાં વગાડવા યોગ્ય શંખ ન હોય તેમ જણાતું હતું. ૮કા लावण्यनीरनयनाब्जदीयवकत्र ___ कासारपालिरिव कर्णयुग विभाति । द्वीपेषु सूचयति किं स्वमितेषु भावि श्लोक शिशोः श्रवणयोश्च नवदयाङ्कः ।।८८॥ कर्णयुग कुमारश्रवणयुग विभाति शोभते । उत्प्रेक्ष्यते-लावण्यं मनोक्षता स्वरूप सौन्दर्य वा तदेव नीर सलिल यत्र । तथा नयने लोचने एवाजे कमले यत्र ताशस्य यदीयवत्रकासारस्य कुमारसंबन्धिवदनसरसः पालिः सेतुरिव सरसो जलरुन्धनस्थान
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy