SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सर्ग ३ श्लो० ७८-७९] सौभाग्यम् श्रीमान्मुरारिवि तेन हिरण्यरत्न - कोटी वितीर्य सुतसूरिरपि व्यधायि ॥७८॥ १८४ तेन गुरुणा कलाचार्येण विधिवत् शास्त्रोक्तप्रकारेण द्विसप्ततिकलानामादिमा कला लिखितगणितादिरन्तिमा कला शकुनरुतमित्युक्तप्रकारेण । अथवा मातृकादिकचाणि - क्याङ्क (त) पाठनैकविधिना सकलाः समस्ता अपि विद्या अध्याप्य पाठयित्वा तस्य कुमारस्य कुंराख्यस्य वा जनकस्य पितुः स हीरकुमारः प्रत्यर्प्यते स्म पश्चादर्पितः । अपि पुनः तेन तज्जनकेन कुंरामहेभ्येन सुतसूरिः स्वपुत्रहीरकुमारस्य कलाचार्यः हिरण्यानां रत्नानां मणीनां कोटीर्बहुशो लक्षशतानि वितीर्य दत्त्वा मुरारिः कृष्ण इव श्रीमान् लक्ष्मीपतिर्व्यधायि विहितः ॥ કલાકા કલાચા હીરકુમારને લેખન ગણિતથી આરંભીને શત્રુન—સ્વરશાસ્ત્ર પંત પુરુષની બહેાંતેર કળા શિખવી તેના પિતા કરાશાહને અણુ કર્યાં. ત્યારે કરાશાહે હીરકુમારના ગુરુ (અધ્યાપક)ને વિપુલ સુવર્ણ અને રત્નાની ગુરુદક્ષિણા આપીને કૃષ્ણની જેમ યથા લક્ષ્મીપતિ બનાવ્યા. ૮ चित्रमिवेन्दुरनवद्यतमां स विद्यां, लब्ध्वा श्रिया तदवधि व्यरुचत्कुमारः । आसीदसीममहिमाप्यनयार्भकस्य, प्रोल्लेखितस्य निकषेण मणेस्त्विषेव ॥ ७९ ॥ स कुमारः अनवद्यतमाम् अतिशयेन लाघनीयां विद्यां लब्ध्वा संप्राप्य तदवधि विद्याधिगमदिवस एवावधिर्मर्यादा यत्रेति क्रियाविशेषणम् । तद्दिनमारभ्येत्यर्थः । श्रिया शोभया लक्ष्म्या वा व्यरुचत् शुशुभे । 'सहस्रधात्मा व्यरुचद्विभक्तः' इति रघुवंशे । क इव । इन्दुरिव । यथा चन्द्रः अनवद्यतमामतिनिर्मुक्तमेघोपरोधां चित्रां त्वाष्ट्र नक्षत्रवि शेष प्राप्य श्रिया शारदीनकौमुदीलक्ष्म्या विरोचते । युद्धयो लुङि घुतादिभ्यः परस्मैपदं वा स्यात् । 'पुषादिद्युतादिलदितः परस्मैपदेषु' श्यन्धिकरणपुषादेतादेर्लदितश्च परस्य चलेरङ स्यात् परस्मैपदेषु । अद्युतत् । अद्योतिष्ट । अरुचत् । अरोचिष्ट ।' इति प्रक्रियाकौमुद्याम् । अपि पुनस्तस्यार्भकस्य हीरकुमारस्य तया विद्यया कृत्वा न विद्यते सीमा मर्यादा यस्य सः असीमः । अद्वैत इत्यर्थः । तादृशो महिमा माहात्म्य यस्य तथाविघ आसीत् बभूव । कस्येव । मणेरिव । यथा निकषेण शाणेन उल्लेखितस्य उत्तेजितस्य निर्मलीकृतस्य मणे रत्नविशेषस्य त्विषा कान्त्या कृत्वा अनन्य महत्त्व मूल्य महार्घ्यता भवति ॥ इति बालक्रीडा ॥ લેાકા હીરકુમારે જ્યારથી અતિપ્રશસનીય વિદ્યાને પ્રાપ્ત કરીત્યારથી આરંભીને વિદ્યાલક્ષ્મીવર્ડ અત્યંત તે શાલતા હતા. જેમ ચન્દ્ર ચિત્રા નક્ષત્રને પામીને શરદ ઋતુની લક્ષ્મીવડે શેાભે છે. તેમ હીરકુમાર
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy