SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सर्ग ३ श्लो० ७६-७८] हीरसौभाग्यम् .. १८३ तेन हीरकुमारेण सूरिः कलाचार्यः प्रासादि प्रसन्नीकृतः । तेन किंभूतेन । विनयेन अवनतेन नम्रेण । तेन पुनः किं कुर्वता । गुरोः स्वाध्यापकस्य वाचं वाणीम् । वचनमात्रमपीत्यर्थः । नोल्लङ्घयता नातिकामता । कामिव । छायामिव । यथा कोऽपि स्वतनोश्छायां नोल्लङ्घयति । गुरोस्तस्याध्यापकस्य सर्वैः सकलैः प्रयत्नरुद्यमैस्तस्मिन् हीरकुमारे सफलैः फलवद्भिरभावि संपन्नैः संजातम् । कस्येव । कृषीवलस्येव । यथा कृषिकस्य कर्षणकारिणः अनूषरभुवि सर्वसस्योत्पत्तिस्थानक्षेत्रभूमौ प्रयत्नैः प्रयासैः सफलैर्भूयते ॥ પ્લેકાર્થ હીરકુમારના વિનયથી અને નમ્રતાથી કલાચાર્ય ખૂશ થયા. જેમ શરીર પોતાની છાયાનું ઉલ્લંઘન ન કરે તેમ હીરકુમાર ગુરુના વચનનું લેશમાત્ર પણ ઉલ્લંઘન કરતા ન હતા તેથી જેમ ફલકૂપ જમીનમાં ખેડુતના સર્વ પ્રયાસો સફલ થાય તેમ હીરકુમારમાં ગુરુ (અધ્યાપકોના સર્વ પ્રયાસો स५५ यया. ॥७॥ तं साक्षिण प्रणयवान्स्वगुरुं प्रणीय, स्वल्पैर्दिनैः स वहनैरिव धीविशेषैः । संप्राप पारमखिलागमसागरस्य, साधुः समाधिभिरिवानुपमैर्भवस्य ॥७७॥ . प्रणयः स्नेहो गुरुजनेषु विद्यते यस्य स हीरकुमारस्त स्वगुरु' निजकलाचार्य साक्षिण प्रतिभुवम् । साक्षिमात्रमित्यर्थः । प्रणीय कृत्वा स्वल्पैरतिस्तोकैदिनैर्वासरः अखिलागमसागरस्य समस्तशास्त्रसमद्रस्य पार परतीर प्रान्त संप्राप लेमे। गृहमेधिवासोचितं सर्वशास्त्रमधीतवानित्यर्थः । कैः । धीविशेषैः स्वप्रज्ञोत्कषैः । बुद्धिविशिष्टगुणातिशयैः । कैरिव । वहनैरिव । यथा यानपात्रैः कृत्वा सांयान्त्रिकः समुद्रस्य पारमभिलषितघेलाकल प्राप्नोति । 'सांयान्त्रिकः पोतवणिक । बोहित्थ वहन पोतः ।' इति हैम्याम । अथ प्रथगपमापि । क इव । साधरिव । यथा यती अनुपमैरसाधारणः समाधिभियानविशेषैः । 'ध्यान तु विषये तस्मिन्नेकप्रत्ययसंततिः । समाधिस्तु तदेवार्थमात्राभासनरूपकः ॥' इति हैम्याम् । एतावता योगैः कृत्वा भवस्य संसारस्य । 'भवः सत्तात्मजन्मसु । रुद्रे श्रेयसि संसारे' इत्यनेकार्थः । पारौं मोक्षण प्रामोति ॥ શ્લોકાર્થ વડીલે પ્રત્યે બહુમાનવાળા હીરકુમાર પિતાની બુદ્ધિના પ્રકર્ષથી કલાચાર્યને સાક્ષી રાખી ગૃહસ્થને યોગ્ય સર્વ શાસ્ત્રસમુદ્રને પાર પામ્યા. જેમ કુશળ નાવિક વહાણવડે સમુદ્રનો અભિલપિત કિનારો હેલાઈથી પામી શકે, જેમ કેઈ યોગી અસાધારણ કટિની સમાધિવડે સંસાર સમુદ્રનો પાર પામે છે અર્થાત મોક્ષ પ્રાપ્ત કરે છે, તેમ હીરકુમાર સરળતાથી સર્વશાસ્ત્રમાં પારંગત બન્યા. છા अध्याप्य तेन विधिवत्सकलाः स विद्याः, ... प्रत्ययेते स्म गुरुणा जनकस्य तस्य ।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy