________________
१७६
__ हीरसौभाग्यम् सर्ग ३ श्लो० ६३-६४ एनं हिरण्यमणिभूषणभूषिताङ्ग
मिभ्याङ्गज नयनयोरतिथिं प्रणीय । सोऽय स्मरो हरहुताशहतोऽवतीर्ण
एतन्मिषेण समशायि कयाचिदेवम् ॥६३॥ हिरण्यमणिभूषणः स्वर्णरत्नालंकारैर्भूषिताङ्गमलंकृतकायमिभ्यागज कुंराव्यवहारितनयमेन हीरकुमार नयनयोरात्मलोचनद्वन्द्वस्य अतिथि प्राघुणक प्रणीय कृत्वा । यतः 'नयनातिथिं विधत्ते नेत्रप्राघुणकमातनोत्यपि च,' तथा दृग्गोचरीकरोति च लोचनविषयं च निर्माति,' तथा दृग्गोचरतां नयति च लोचनविषयत्वं च आनति' इत्यादिः क्रियाकलापे । कयाचिद्धाच्या कामिन्या वा एवममुना प्रकारेण समशायि संशयश्चक्रे । 'नैषधेन समशायि चिराय' इति नैषधे । एवं किम् । हरहुताशहतः । त्रिलोचनेन स्वभालप्रादुर्भूततृतीयलोचनज्वलनज्वालाज्वालितः । अत एव एतन्मिषेण । हीरकुमारव्याजेन एतद्रूपेणेत्यर्थः । गृहीतावतारः आदत्तापरजन्मा सोऽयं प्राक्श्रवणगोचरीकृतः स्मरः काम इव मकरध्वजरूपावतारः । हीरकुमार इत्यर्थः ॥
સુવર્ણ અને રનના અલંકારવડે સુશોભિત હીરકુમારને પોતાના નેત્રકમલના અતિથિ બનાવીને, અર્થાત્ આદરપૂર્વક જોઈને, કઈક લલના આ પ્રમાણે વિચારતી હતી, “મહાદેવના કપાળમાં પ્રગટ થયેલા ત્રીજા નેત્રવડે ભસ્મીભૂત બનેલા કામદેવે આ હીરકુમારના શરીરરૂપે જાણે અવતાર લીધો ન હોય ! અર્થાત હીરકુમાર કામદેવ જેવા સ્વરૂપવાન હતા.
काचिद्वशा विकचचम्पकसूनशालि
मालां विलम्बितवती शिशुकण्ठपीठे । तस्मिंश्चिकीर्षुखि कौतुकिनाकिमुक्त
प्रालम्बिकाङ्किनवकल्पतरूपमानम् ॥६४॥ काचिद्वशा धात्री परा वा वनिता शिशोहीरकुमारस्य कण्ठपीठे विकचानां कुसुमितानां चम्पकानां हेमपुष्पकाणां सूमैः कुसुमैः कृत्वा शालते शोभते इत्येवंशीलां मालां विकसितचम्पककुसुमाकलितहारलतां विलम्बितवती चिक्षेप । स्थापयति स्मेत्यर्थः । उत्प्रेक्ष्यते । तस्मिन् हीरकुमारे कौतुकिना कुतूहलाकलितेन नाकिना केनापि देवेन मुक्ता अवलम्बिता स्थापिता प्रालम्बिका हेमदामदीनारमालिका सुवर्णझुम्बनकमके कण्ठेऽस्यास्तीति तादृशस्य नवस्य बालकस्य कल्पतरोदेवमस्य उपमान साम्य चिकीर्षुरिव कर्तुमिच्छुः किमु ॥