________________
१७५
सर्ग ३ श्लो• ६१-६२] हीरसौभाग्यम्
काचित् कदाचन कुरङ्गमदाङ्गराग, __ कौतूहलेन कुरुविन्ददती ततान ॥६१॥
कुरुविन्दाः पद्मरागमणयः तद्वद्दशना दन्ता यस्याः सा कुरुविन्ददती । 'को दर्शयेत्वां कुरुविन्दमालाम्', 'चित्ते कुरुष्व कुरुविन्दसकान्तदन्ति' इति च । 'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' इति दन्तस्य दद्वा । स्त्रीलिङ्गत्वादीप्।' इति नैषधवृत्तौ पाणिनिसूत्रम् । पदद्वयमपि च नैषधीयम् । काचित्तादृशी धात्री कदाचन कस्मिन्नपि समये कौतूहलेन कुरङ्गमदेन कस्तूरीद्रवेण कृत्वा अङ्गरागमर्थात्कुमारागे विलेपन ततान कृतवती । उत्प्रेश्यते । नीलेन अंशुकेन वसनेन कलितस्य आवृतस्य । परिहितनीलवस्त्रस्येत्यर्थः । तथा बालकस्य कुमारावस्थालंकृतस्य कामपालस्य बलभद्रस्य मूर्तेः शरीरश्योपमितिमुपमान कुमारे स्वाभाविककनककेतकगौरशरीरहीरकुमारे आनयितुम् । प्रदापयितुमिवेत्यर्थः ॥
લોકાર્થ પદ્મરાગમણિ જેવી દંતપંકિતવાળી કોઈ એક સ્ત્રી, કઈ અવસરે હીરકુમારના શરીરને ટૂહલપૂર્વક કસ્તૂરીને પંકવડે વિલેપન કરતી હતી, તે જાણે નીલવસ્ત્રથી આચ્છાદિત બાલબલભદ્રની મૂર્તિની ઉપમા ગૌરવર્ણાય એવા હીરકુમારના શરીરમાં ઘટાવવા માટે વિલેપન કરતી ન હોય !૬૧
काचिच्चकोरनयना व्यवहारिसूनो
चकत्राम्बुज विकचनेत्रपुटैर्निपीय । चेतस्तमीदयितनिर्मलितात्मदर्श
स्मेराब्जदर्शनविधौ शिथिलीचकार ॥६२॥
काचिदशाताभिधाना धात्री परा वाऽऽगता चकोरनयना कामिनी व्यवहारिसूनोः कुरामहेभ्यनन्दनस्य वनाम्बुज मुखारविन्द विकचैर्विकस्वरैनॆत्रपुटैर्नयनपत्रपुटकैर्निपीय सादरमवलोक्य तमीदयितः पूर्णिमाचन्द्रः तथा निर्मलितः शाणोत्तेजितः आत्मदर्शः दर्पण स्तथा स्मेराजं विकचकमल तेषां दर्शनविधौ अवलोकनप्रकारे चेतः स्वमनः शिथिलीचकार मन्दीकरोति स्म । पार्वणेन्दुदर्पणपझेभ्योऽप्यधिकं यन्मुखमित्यर्थः ॥
.
साथ કોઈક ચકેરનયના સ્ત્રી હીરકુમારના મુખારવિંદનું આદરપૂર્વક બે નેત્રોથી પાન કરીને, પૂર્ણિમાના ચંદ્રને, નિર્મલ દર્પણને તેમજ વિકસ્વર કમલને જોવામાં પોતાના મનને સ્થગિત (મંદ) કરતી હતી ! અર્થાત્ પૂર્ણિમાના ચશ્વ, દર્પણ અને પા કરતાં પણ અધિક હીરકુમારના મુખની શોભા હતી. આકરા