________________
सर्ग ३ श्लो० ५८-५९] हीरसौभाग्यम्
पित्रोर्मनोरथगणान् कुटजावनीजान् ,
प्रावृट्पयोद इव पल्लवयन् कुमारः । उत्सङ्गयोरुदलसत् कलयन् विलास,
फुल्लल्लताफलदयोरिव केलिकीरः ॥५८॥
आनन्दमेदुरितमानसपद्मचक्षु
रङ्कान्तरं परिचरन् स महेभ्यसनुः । अभ्राधिकान्तरमिवार्भकभानुमाली,
कस्तूरिकामृगशिशुर्विपिनान्तरं वा ॥५९।।
जननीजनकयोः उत्सङ्गयोविलास बालक्रीडां कलयन् कुर्वन् उदलसत् उल्लसति स्म शुशुमे । क इव । केलिकीर इव । यथा केलिकलितः क्रीडाकरः कीरः । अर्थात् बालशुकः । उल्लसतोर्विकसतोलताफलदयोरुत्सङ्गयोरुल्लसति । कुमारः किं कुर्वन् । मनोरथगणान् । अर्थात् पित्रोः वाञ्छाशतानि पल्लवयन् नवीकुर्वन् फलयन् वा । क इव । प्रावृट्पयोद इव । यथा वर्षाकालसंबन्धी मेघः कुटजावनीजान् नीपद्रुमान् पल्लवयति किशलयकलितान् करोति । स महेभ्यसूनुः कुराव्यवहारिनन्दनः स हीरकुमारः आनन्देन हर्षेण मेदुरित पुष्टीभूत मानसं मनो यासां प्रमोदप्रपूरितानां पद्मचक्षुषां कमललोचना नामेकस्मादङ्कादन्योऽङ्क उत्सङ्गः अङ्कान्तर परिचरन् सेवमानः । 'भजते श्रयत्युपास्ते, शीलत्युपतिष्ठते च शीलयति । उपचरति परिचरति च, निषेवते च प्रसादयति ॥' इति क्रियाकलापे । आबभासे शुशुमे। क इव । अर्भकभानुमालीव । यथा अभ्रस्य मेघस्य अभ्रिकान्तरमेकस्या अभ्रिकाया अपरा अभ्रिका वालिका अभ्राभ्रिकान्तर भजन डिम्भभास्करो भासते । 'जरीज़म्भड्डिम्भद्युमणिरमणीयांशुलहरी' इति खण्डप्रशस्तौ । पुनः क इव । कस्तूरिकामृगशिशुरिव । यथा कस्तूरिकाहरिणो बालको विपिनान्तरमेकस्मा. द्विपिनाद्वनादन्यद्विपिन विपिनान्तर शीलन् । पुनः क इव । द्विरदेन्द्रबाल इव । यथा गजराजस्य । ‘पञ्चवर्षों गजो बालः' इति हैम्याम् । बालः शिशुः विन्ध्योपलान्तरमेकस्माद्विन्ध्योपलाजलबालकशैलशिलायाः अन्य विन्ध्योपल शिलोत्सङ्गम् । 'विन्ध्यस्तु जलबालकः । तथा 'पाया शिलोपलो गण्डः' इति द्वयमपि हैम्याम् । 'पुनः क इव । अर्भककाकपुष्ट इव । यथा क्षीरकण्ठकलकण्ठः कोकिलबालकः चूतद्रुमान्तरमेकस्माच्चूतद्रुमात्सहकारतरोरपरचूतद्रुमः अन्यो माकन्दपादपः तं । पुनः क इव । भ्रमर इव । यथा मधुकरः स्मेराम्बुजान्तरमेकस्मात्स्मेराम्बुजाद्विकचकमलादपर स्मेराम्बुज विकसितपद्मशीलयन् । पुनः क इव । कलहंस इव । राजमरालबालकः तरङ्गोत्सङ्गान्तरम् एकस्मात्तरङ्गस्य कल्लोलस्य उत्सङ्गादपर तरङ्गोत्सर्ग लहरीकोडमुपचरन् भासते ॥