SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७२ हीरसौभाग्यम् सर्ग ३ श्लो० ५६-५७ स्तादृश्या भूमेः पृथिव्याः भर्तुः स्वामिनः चतुर्दिक्पाथोनिधिपर्यन्तभूमीपालस्य चक्रवत्तिनः उचितैर्योग्यैः चिह्नः सामुद्रककथितैर्लक्षणैः समभूषि अलंकृतः। अर्थात् हस्तपादाधङ्गोपाङगेषु शोभितः । उत्प्रेक्ष्यते । दानमभयसुपात्रप्राणिप्रमुखविश्राणनम् , अनुकम्पन मार्यमाणप्राणिमोचनदुःखितदीनकष्टापनयनादिदया, सभाजन देवगुर्वादिपूजनभक्तिः तद्पैर्नीरैः सलिलैः सिक्तस्य प्राचीन पूर्वजन्मावतीण यत्पुण्य स एव विटपाः शाखावि. शेषाः सन्त्यस्यास्मिन् वा इति विटपी वृक्षस्तस्य प्रसवैः पुष्पैरिव । 'पुष्प सून सुमनसः प्रसवश्च मणीवकम्' इति हैम्याम् ॥ કલેકાર્થ હીરકુમાર, પૂર્વ, પશ્ચિમ, ઉત્તર અને દક્ષિણ એમ ચાર સમુદ્ર પર્વતની મનહર ભૂમિના અધિપતિ અર્થાત ચક્રવર્તીને યોગ્ય એવા શુભલક્ષણોથી અલંકૃત હતા. તે લક્ષણ જાણે, અભયદાન, સુપાત્રદાન, અનુકંપાદાન અને ઉચિતદાન એમ ચાર દાનરૂપ જલથી સિચાયેલા પૂર્વજન્મનાં પુષ્પ ન હોય! તેમ જણાતું હતું. ૫૬ सज्ञातिलोचनचकोरनिपीयमाने लावण्यचञ्चदमृतैरुपचीयमानैः । वृद्धिं दधार पृथुकोऽप्रतिमः प्रतीकै द्वैतीयिकेन्दुरिव सान्द्रकलाकलापैः ॥५७॥ २७॥ ____स पृथुकः हीरकुमारः न विद्यते प्रतिमा प्रतिबिम्ब सदृश वस्तु केनापि सादृश्य था येषाम् । 'न तन्मुखस्य प्रतिमा चराचरे' इति नैषधे । तैरसाधारणैः प्रतीकैरवयंवैः। 'एकदेशे प्रतीकोऽङ्गावयवापघना अपि' इति हैम्याम् । कृत्वा वृद्धिं पुष्टिं दधार धत्ते स्म । किंभूतैः प्रतीकैः । सज्ञातीनां स्वजनानां लोचनान्येव चकोरा ज्योत्स्नाप्रियास्तैनिपीयमानैः सादरमतृप्त च अवलोक्यमानैः । पुन. किंभूतैः । लावण्यानि सुन्दरतातिशया एव चञ्चन्ति पुण्यानि चेतोहराणि वा अमृतानि सुधारसास्तैः पुष्टिं प्राप्यमाणैः नीयमानैः । क इव । द्वैतीयिकेन्दुरिव । यथा श्वेतपक्षे द्वितीयायां भवो द्वैतीयिकः द्वितीयासंबन्धी वा चन्द्रः सान्द्राणां स्निग्धानां बहुलानां वा कलानां षोड़शांशलक्षणानां भागानां कलापैः कृत्वा वृद्धि धत्ते । 'केनेथका' इति कप्रत्ययः । णित्वं त्वैषां विकल्पकमिति क्वापि वृद्धिः । द्वितीयाया अयं द्वैतीयकः ॥ કલેકાર્થ તે હીરકુમાર સ્વજનોના લોચનરૂપી ચકોરોવડે આદરપૂર્વક જવાતા અને અત્યંત સુંદરતા તથા મનહરતારૂપ અમૃતવડે પુષ્ટિને પામતા અનુપમ અવયવોવડે વૃદ્ધિને ધારણ કરતા હતા. જેમ બીજનો ચન્દ્ર સ્નિગ્ધ અને ઘનિષ્ઠ એવા સોળ કળાના અંશો વડે વૃદ્ધિને પામે છે તેમ હીરકુમાર અનુપમ અવયવડે વદ્ધિને પામતા હતા. પછી
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy