________________
सर्ग ३ श्लो० ५४-५६] हीरसौभाग्यम्
१७१ स्वस्वजनैः सार्ध स नाथीजनितः शिशुर्वालकः हीर इति नाम यस्य तादृशोऽकारि कृतः । हीरकुमारो नाम निर्मितः । किंभूतेन पित्रा । नीतौ न्याये योग्यताप्रापणे कृतिना कोवि. देन । चतुरेणेत्यर्थः । योग्यत्वनयनमेव दर्शयति । इति किम् । यदेष बालकः अग्रे पाता. लस्य बलिवेश्मनः भूतलस्य क्षोणीमण्डलस्य सुरालयस्य देवलोकस्य लोकानां नागनागरनाकिनां कोटीनां शतलक्षलक्षितानां कोटिशः संख्याकानां कोटिकोटीनां कोटीरेसु मुकुटेषु हीरक इव सर्वोत्तममणिरिव । लोकप्रसिद्धया 'नगीनो' तद्वदसौ शिशुर्भावी भविष्यति इति वितयैव । किं कृत्वा । प्रणीय विधाय । किम् । षष्ठया दिने दिवसे रजन्यां रात्रौ जागरणमुत्सवविशेषम् । किंभूतम् । गीतीनां सोत्कण्ठकलकण्ठकण्ठीकण्ठालपितमधुरगा. नानां प्रतिध्वनितैः प्रतिशब्दितैः कृत्वा नर्तितास्ताण्डवाडम्बरकलिता जाताः कृता वा केलिकेकिनः क्रीडार्थस्वसद्मपालितबालमयूरा यत्र । उत्प्रेक्ष्यते । षष्ठीदिनरजनिजागर स्वककामुकेन निजाभिलाषुकेण अर्थिवजेन याचकचक्रेण सम मिलित सङ्ग कर्तुं वारिधिनन्दनाया लक्ष्म्याः संकेतः 'अमुकस्मिन् स्थाने त्वया समेतव्यम् , मयापि तत्र समागम्यते' इति संकेतः । यूनो युवत्याश्च । तस्य सौध गृहमिव । 'विशेषतीर्थेष्णिव जनन्दना' इति नैषधे ॥ इति जन्मोत्सवनामकरणादिः ॥
લોકાર્થ નીતિશાસ્ત્રમાં નિપુણ કરાશાહે પિતાના હૃદયમાં, “સ્વર્ગ તાલ અને ભૂતલ એમ ત્રણે લેકના કેડે અને અબજો જીવોની સંખ્યામાં આ બાલક એક શ્રેષ્ઠ રત્ન સમાન બનશે આવો વિચાર કરીને વજનની સાથે પછી જાગરણને ઉત્સવ કરીને પુત્રરત્નનું “હીર” એવું શુભનામ રાખ્યું. ૫૪ તે પછી જાગરણમાં મધુર સ્વરે ગવાતા ગીતાના પ્રતિશબ્દો (પડવો)ને ધ્વનિ સાંભળીને ક્રીડાને માટે પાલન કરવામાં આવેલા બાલમયૂરો જેમાં નાચી ઉઠ્યા છે, તેવા પ્રકારનું પછી જાગરણ જાણે પિતાને અભિલિસિત (મેળવવાને ઈચ્છેલા) યાચકસમૂહની સાથે મિલન કરવા માટેનું લક્ષ્મીદેવીનું સંકેતસ્થાન ન હોય ? પજાપા
पूर्वापराम्बुनिधिमञ्जुलमेखलाया,
भूमेः स भर्तुरुचितैः समभूषि चिह्नः । दानानुकम्पनसभाजननीरसिक्ता
प्राचीनपुण्यविटपिप्रसवैरिवतैः ॥५६॥
स हीरकुमारः पूर्वा प्राची अपरा प्रतीची सृष्टिभ्रमणेन पूर्वस्या दक्षिणस्यां गमनादक्षिणा गृहीता पश्चिमाया उत्तरस्यां गमनादुत्तरापि गृहीतैव एतावता चतसृणां दिशां ग्रहणात् तासामम्बुनिधयश्चत्वारोऽपि समुद्राः । ‘पयोधरीभूतचतुःसमुद्राम्' इति रघुवंशवचनात् । एवं मजुला बन्धुरा स्वर्णमणिमौक्तिकमण्डिता मेखला काञ्ची यस्याः । मेखला तु वलयाकारतया कटीजघनादिप्रदेशे परिधीयते, ततश्चतुर्दिग्वतिसमुद्रोपादानम् । अथवा अपरोऽपि पाठः । यथा 'अर्भश्चतुर्जलधिमञ्जुलमेखलायाः'। चत्वारः प्राची प्रतीची अवाची उदीचीति चतुर्दिग्वनिनो जलधयः समुद्रा एव मञ्जुला मनोहरा मेखला रसना यस्या