________________
सर्ग ३ श्लो० ४७-४९] हीरसौभाग्यम्
१६७ जन्मैव अमित मानरहित मधु माध्वीकमस्य महेभ्यस्य निर्दिशद्भिः । कथयद्भिः । 'अमित मधु तत्कथा मम' इति नैषधे । इति पुत्रवर्धापनिकादानादि ॥
શ્લોકાથ અત્યંત રસભરી એવી પુત્રજન્મની વધામણીને કહેનાર સેવકવર્ગને દાન આપતી વખતે, શ્રીમંતોના અધિપતિ કરાશાહ, હાથની પાંચ આંગળીઓ હોવા છતાં પણ કલ્પવૃક્ષની જેમ હજાર આંગળીઓવાળા દેખાતા હતા. ૪૭
आसाद्य तत्प्रसववेश्म सम सगोत्रः,
सूनोरतृप्ति स पिबन् वदनारविन्दम् । अद्वैतसंमदपरम्परयालिलिङ्गे,
. लक्ष्म्या पुमानिव पचेलिमपुण्यशाली ॥४८॥ स महेभ्यःन विद्यते द्वैत युगल येषाम् । 'युग द्वैत यम द्वन्द्व युग्मम् यमल-यामले'. इति हैम्याम् ।असाधारणानामित्यर्थः । तादृशानां संमदानां प्रमोदानां परम्परया आलिलिगे आश्लिष्टः । कयेव । लक्ष्म्येव । यथा पचेलिमेन परिपाक प्राप्तेन उदयावलिकायामागतेन पुण्येन सुकृतेन शुभकर्मणा शालते शोभते इत्येवंशीलः पुमान् श्रिया क्षीरार्णवनन्दिन्या आलिङ्गयते आश्लिष्यते । आश्रीयते इत्यर्थः । महेभ्यः किंविशिष्टः । न विद्यते तृप्तिः सौहित्यमत्यादरतया यत्र, तृप्तिरहित यथा स्यात्तथा क्रियाविशेषणम् । सूनोः स्वपुत्रस्य वदनारविन्द मुखकमल पिबन् सादरमवलोकयन् । किं कृत्वा । सगौत्रैः स्वजनैः सम तस्या नाथीदेव्याः प्रसववेश्म सूतिकासदनमासाद्य संप्राप्य समागत्य ॥
सार्थ કરાશાહ પિતાના સ્વજનોની સાથે નાથદેવીના સૂતિકાગ્રહમાં જઈને પુત્રરત્નના મુખારવિંદનું પ્રેમપૂર્વક દર્શન-પાન કરતા તૃપ્તિને પામતા ન હતા. અર્થાત અસાધારણકટિની હર્ષની પરંપરાને પામ્યા. જેમ કેઈ પુણ્યશાળી પુરુષને પુણ્યકર્મના પરિપાકથી લક્ષ્મી આપોઆપ આવીને ભેટે છે, તેમ કરાશાહ રતિ (આનંદ)લક્ષ્મીને ભેટવાવાળા થયા અર્થાત ખૂબજ આનંતિ થયા. ૪૮
तस्याङ्गजास्यशशिदर्शनतोऽम्बुराशे
रामिवोल्लसदमन्दमुदामियत्ताम् । हृत्सद्मसूत्रितजगत्त्रयविस्तरापि,
विज्ञावली प्रभुरभून तदा प्रमातुम् ॥४९॥ तदा तस्मिन् काले पुत्रप्रसवसूतिकासदनागमननन्दनावलोकनसमये तस्य कुरासाधोः अङ्गजः स्वनन्दनस्तस्यास्य वदनमेव शशी संपूर्णपार्वणचन्द्रः । पूर्णचन्द्र एवं शशी लक्ष्यते नान्यथा । अत एव शशी । तस्य दर्शनतोऽवलोकनादम्बुराशेः समुद्रस्येव