________________
हीरसौभाग्यम् सर्ग ३ श्लो० ४२-४३ समास एव रङ्गो नर्तनस्थान तत्र एतस्य भाविसूरेः कुमारस्य गुणानां शमदमसंयमादिकानां षट्त्रिंशत्षत्रिंशिकासंख्यानां गणनातीतानां वा. ..अभिनवानां पूर्वगीतापेक्षया नूतनानां गानानां गीतीनां प्राक्श्रुतगीतिश्रवणे तादृक् रसो न स्याद्यादृक् नवीनगानश्रवणे रसः समुत्पद्यते । तस्मादेतस्य ध्रुवपदगानानां विधान निर्माणं तदेव पूर्वमादिर्यत्र तादृश प्रारब्धमुपक्रान्तम् । 'प्रारम्भः प्रोपतः क्रमः' इति हैम्याम् । यत्ताण्डव नाट्य तस्य तत्र वा तरङ्गयुक्ता जातास्तरहिगताः कल्लोलिता ये रसाः शृङ्गारादयो नव आस्वादो वा । 'रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे देहधातौ तिक्तादौ पारदेऽपि च ॥' इत्यनेकार्थः । त एव अङगमवयवः शरीरं वा तादृशो रङ्गः अस्माभिरप्सरोभिः अवाप्स्यते उपक्रस्यते । तदनन्तरमाकाशे संगीतमुदज़म्भत । रम्भो. वशीप्रभृतयो नृत्यमप्सरसो व्यधुः ॥ इति पाण्डवचरित्रेऽर्जुनजन्माधिकारे । तथा 'स्वका न्तिसर्वस्वापहारभयादिव दिवि ननूतुरप्सरसः' इति चम्पूकथायां दमयन्तीजन्मनि । इति हीरकुमारजन्ममाहात्म्यम् ॥
सार्थ રંભા, તિલોત્તમા આદિ સ્વર્ગની અપ્સરાઓએ હીરકુમારના જન્મ સમયે ઘણા આનંદપૂર્વક આકાશમાં પંડિતરાજ-દેવરાજની સભામાં નૃત્ય કર્યું હતું. “આ ભાવિ આચાર્યના શમદભાદિ છત્રીસ છત્રીશીગુણ અર્થાત અગણિત ગુણોના નવીન કાવ્યના સર્જન પૂર્વક, નૃત્ય ની શરૂઆતમાં જ જેમાં શૃંગાર' આદિ નવરસ તરંગરૂપે બન્યા છે, તેવા પ્રકારના રસરૂપી અવયવોની મનહરતા અમને પ્રાપ્ત થશે' જાણે આ હેતુથી જ સ્વર્ગની અપ્સરાઓએ મધુરગીતપૂર્વક નૃત્યનું આયોજન કર્યું ન હોય ! જરા
प्रल्हादनाहनगरं पुनरप्यमुष्य,
मूर्त्या पवित्रयितुमन्तरिवेहमानः । श्रीसोमसुन्दरयतिक्षितिशीतकान्ति
र्जन्मापर स्वयमसौ ग्रहयांबभूव ॥४३॥ असौ सोमसुन्दरनामा यतीनां मध्ये क्षितेः पृथिव्याः शीतकान्तिश्चन्द्र एतावता राजा श्रीसोमसुन्दरसूरिः स्वयमात्मना परमन्यजन्मावतार ग्रहयांबभूव जग्राह । उत्प्रेक्ष्यते । अमुष्य कुमारस्य मूर्त्या शरीरेण पुनरपि द्वितीयवार प्रल्हादनमिति आह्वा नाम यस्य तादृश नगर पवित्रयितुं पावनीकर्तुमीहमानो वाञ्छन्निव । एकवार सोमन्दरसूरिवपुषा प्रल्हादनपुर पवित्रितं द्वितीयवार हीरविजयसूरिमूर्त्या कृत्वा पवित्रीचिकीर्षुरिव ॥
બ્લેકાર્થ સાધુઓમાં ચંદ્ર સમાન સેમસુંદરસૂરિએ આ પવીતલ ઉપર બીજીવાર જન્મ ગ્રહણ કર્યો ! કારણકે એકવાર પિતાના સ્વરૂપે (જન્મથી) પ્રહલાદનપુરને પવિત્ર કર્યું હતું. હવે આ ભાવિ હીરસુરિના શરીરથી પુનઃ પિતાની જન્મભૂમિ પ્રહલાદનપુરને પવિત્ર કરવા જાણે ઇચ્છતા नहोय ! ॥४॥