SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६० हीरसौभाग्यम् सर्ग ३ श्लो० ३५-३८ આદિ યુગપ્રધાનની સમાનતા ધારણ કરવાથી આ હીરકુમાર અલ્પ સમયમાંજ જિનશાસનને જયવંતું કરશે !” આ હેતુથી જ જાણે શાસનલક્ષ્મી નાચી ન હોય ! ૩૫ા विश्वत्रयीश्रुतिपुटैकवतंसिकाना मस्माकमेष समजायत वासवेश्म । गम्भीरधीरिममुखाभिरधःकृतेन्दु श्रीभिश्च वल्पितमितीव गुणावलीभिः ॥३६।। गम्भीरिमा गाम्भीर्य भावप्रधानो निर्देशः। धीरिमा धैर्य तावेव मुखे आदी यासाम् । अथवा गम्भीरश्च धीरश्च गम्भीरधीरौ गम्भीरधीरयोर्भावो गम्भीरधीरिमाणौ तावेव मुखौ प्रथमौ यासां तादृशीभिर्गुणानामावलीभिः श्रेणीभिः वल्गित प्रोल्लसितम् । 'सुविकासहाससहकारिकारणोपलम्भपूर्णमनोरथेन वलिगतमिव वसन्तमासेन' इति चम्पूकथायाम् । किंभूताभिर्गुणावलीभिः । अधःकृता तिरस्कृता निर्मलत्वेन इन्दुश्रीश्चन्द्रिकाशोभा याभिः । इबोत्प्रेक्ष्यते । इति हेतोलितमिव । इति किम् । यद्विश्वेषां त्रिभुवनानां तास्थ्यात्तद्वयपदेशात्रिजगज्जनानां श्रुतिपटेषु कर्णपालीषु एकानामद्वैतानां वतंसिकानामुत्तसानाम् । 'वष्टि भागुरिरल्लोपम्' इत्यलोपाद्वतंसिकानाम् । 'विदर्भपुत्रीश्रवणावतंसिका' इति नैषधे । त्रैलोक्याद्वैतकर्णाभरणानामस्माकं गुणावलीनामेष हीरकुमारः वासवेश्म निवसनसदन समजायत संजातः ॥ પ્લેકાર્થ નિર્મલચંદ્રિકાની શેભાને તિરસ્કાર કરનારી એવી ગાંભીર્ય અને ધૈર્યરૂપ મુખવાળી શ્રેણિઓ અર્થાત ગાંભીર્યાદિ ગુણોની શ્રેણિઓ ઉલ્લાસને પામી. “ત્રણે લોકમાં અદ્વિતીય કાનનાં આભૂષણોરૂપી અમારી ગુણાવલિ (ગુણોની પંક્તિ)ના મંદિર સ્થાનરૂપ આ હીરકુમાર બનશે” આ હેતુથી જ જાણે એ શ્રેણિઓ ઉલ્લાસને પામી ન હોય ! ૩૬ आजन्म यद्विधुरिवैष उदेति कीर्ति ज्योत्स्नाः किरन्कुवलयैकविकाशकारी । अस्मादृशैः किमयशोऽञ्जनमादधानः, किंचित्प्रकाशितनिशान्तदशान्तदीप्रैः ॥३७॥ भास्वन्मयूखविजिगीषुयदङ्गजात नैसर्गिकाङ्गभवभास्वदभीषुजालैः । तत्कालमल्पतमतैलदशैत्विोप दीपैरितीव समजायत दीप्तिदुःस्थैः ॥३८॥ (युग्मम्
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy